()निरीक्ष्य नेत्रोत्सवमद्य पार्थिवं चिराय गोयोनिगतोऽपि शोच्यताम् । त्वयायमात्मेति सहासमङ्गना तदा सखीं संड्यते स्म यास्यती ॥ २० ॥ नरेन्द्रमार्ग समागतौ परस्परोत्सारणबद्धमत्सरौ । त्वरया पुमान्पुमांसं समराय निर्गतः समाहृतापास्य नरेन्द्रदर्शनम् ॥ २१ ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोप योगेषु कृञ्जः ॥ ३२ ॥ अधेः प्रसहन ॥ ३३ ॥ वेः शब्दः कमेणः ॥ ३४ ॥ अकर्मकाच ॥ ३६ ॥ सभाप्रभाहम्यगवाक्षसंश्रयाः कुतूहलोत्तानविलोचनोत्पलाः क्षितीशसंदर्शनजातपाटवाः प्रकुर्वते स्म प्रमदाः कथामिति ॥ २२ ॥ स एष राजा गुणिनां पुरःसरः समागतान्नेोत्कुरुतेऽत्र यो जनान् । न तस्करोऽपाकुरुतेऽस्य देहिनः स्थितान्पथि श्येन इव प्रवर्तकान् ॥२३॥ यमेकमध्यं(१) क्षितिपाः प्रकुर्वते वरस्त्रियोऽन्तश्च भयान्न मानवम् । जनो गुणानांगुणिनि क्षमापतौ न सोऽस्ति नोपस्कुरुतेऽत्र यः सदा ॥ २४ ॥ न यस्य तेजांस्यधिकुर्वते द्विषः प्रभाकरस्येव शुचौ शरीरिणः । अवाप्तवित्ताहितरक्षणक्रिया विकुर्वतेऽमुष्य च(न) भूपतेः प्रजाः ॥ २५ ॥ प्रकाशनामा नमिताखिलाहितः स एष राजा गुणरञ्जितप्रजः । ईतो विनादान्ककुभो विकुर्वते मृदङ्गमन्द्रप्रतिनादपूरिताः ॥ २१ ॥ उपसगोदस्यत्यूह्यावा ॥ वा० ।। निरस्यते योऽत्र दृशैौ नृपे जनो निरस्यति प्रागखिलं स तामसम् । अमुं स्मरश्चारुतया समूहते समूहतीन्दं न तथोत्सवं दृशाम् ॥ २७ ॥ नियः ॥ ३६ ॥ कर्तृस्थे चाशरीरे कर्मणि ॥ ३७ ॥ अयं महात्मा नयते नतानरीन्सुतानिवोपानयते परार्भकान् । अमुष्य बुद्धिर्नयते नयानयौ व्यनेष्ट नायं वसु दत्तमर्थिने ॥ २८ ॥ १. ‘प्रपा' इति भवेत्, २. ‘इतीव नादाः' इति भवेत्. ३. अयं कोकः ‘निरीक्ष्य नेत्रोत्सव'(२॥२०) इति श्रोकात्प्राग्व्याख्यातुं योग्यः. कृतार्था योऽमुं यः शधुलोकेऽपि नति प्रयाते क्रोधं मुदेवाशु वशी व्यनेष्ठ ॥ २९ ॥ वृतिसर्गतायनेषु क्रमः ॥३८॥ उपपराभ्याम् । ॥ ३९ ॥ आङः उद्भग्ने ॥ ४० ॥ वे: पादविहरणे ॥ ४१ ॥ प्रो पाभ्यां समर्थाभ्याम् ॥ ॥ अनुपसगोदा ॥ ॥ ४२ ४३ द्धिषि क्रमन्तेऽस्य न तत्र() मार्गणा हिताय योऽस्मै क्रमते समागतः । “यमत्र क्रा च भूपतावमुं स चोपक्रमते मुदा जनः ॥ ३० ॥ रविर्यथैवाक्रमते तमोपहस्तथायमाक्रामति वैरिमण्डलम् । परो यथा विक्रमतेऽस्य लीलया तथायम(द)श्धः समरेऽपि वृत्तयः(१) ॥ ३१ ॥ यथा निजः प्रक्रमते विभूतये तथैव यो(चो)पक्रमते परेऽप्ययम् । यथास्य कीर्तिः क्रमते पयोनिधींस्तथास्य ह्रीः क्रामति नोपकण्ठतः ॥ ३२ ।। अपह्नवे ज्ञः ॥ ४४ । अकमेकाच ॥ ४५ ॥ संप्रतिभ्या यथावभाग वपुष क्षमापतेर्विभूषणायोपहितानि सर्वतः । खतेजसाक्रम्य नरैरुपेयुषीं स्फुरन्ति रखान्यपजानते द्युतिम् ॥ ३३ केचिन्नरेन्द्रं परितः समेताः प्रीत्या जनौघाः प्रतिजानतेऽमी । अन्ये तु कान्तं प्रतिजानतेऽमुं साक्षात्क्षमामागतमिन्दुमेव ॥ ३४ ॥ गताः पुरः के जवनैस्तुरङ्गः पश्चात्स्थिताः के गजताधिरूढाः इति बुवाणाः परितः क्षितीशं संजानते भृत्यजना नियुक्ताः ॥ ३५ ॥ ४७ व्यक्तवाचां समुचारणे ४८ ॥ ४९ ॥ विभाषा विप्रलापे ।। ५० ।। रविरिव वदते तु पार्थिवोऽसावुपवदते च समागतान्दिदृक्षन्। मतिरपवदतेऽस्य शाखमागें तदपि परं वदते श्रुतार्थमेषः ॥ ३६ जगति विवदते न पात्यमुष्मिझुपवदते न कुलाङ्गनां च कश्चित् । समितिषु वदते गुणाञ्जनोऽसावनुवदते प्रमदाजनोऽप्यमुष्य ॥ ३७ अवाद्रः ॥ ५१ ॥ समः प्रतिज्ञाने ॥ ५२ ॥ १. ‘निजे' इति सप्तम्यन्तपाठो भवेत,
पृष्ठम्:रावणार्जुनीयम्.djvu/९
दिखावट