सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । सितमि(म)वगिरते यशोऽस्य बाहुर्भुजबलबाधितशात्रवोपलब्धम् । अमुमबनिभुजं विमुच्य पुंसां कृतमिह संगिरते न कश्चिदन्यः ॥ ३८ उद्दश्वरः सकर्मकात् ॥५३॥ समस्तृतीयायुक्तात् ॥५४ भुवि नोचरतेऽस्य को गुणौधं योऽयं संचरते तुरङ्गमेण । दाणश्च सा चेचतुथ्यैर्थे ॥ ५५ ॥ तस्मिन्परिपाति कामिलोको दास्या नैव हि संप्रयच्छतेऽर्थान् ॥ ३९ ॥ उपादद्यमः स्वकरणे ॥ ५६ स एष वश्यो नृपनीतिवर्तिनां वपुःश्रिया यः परिभूतमन्मथः । न चक्षुरेकं पतितं कुतूहलाजनस्य चेतोऽप्य(प्यु)पयच्छते प्रभुः ॥ ४० ॥ ज्ञाश्रुस्मृदृशां सनः ॥ ५७ ॥ जिज्ञाससेऽमुं यदि तत्त्वतस्तं लक्ष्मीमियं विद्धि ततो मुरारिम् । शुश्रूषसे यत्पुनरस्य वृत्तं श्रोत्रं कृताथै कुरुषेऽधुना तु ॥ ४१ ॥ दिदृक्षमाणः कुरुते जनोऽमुं पुरस्थितः सर्वजनैकदृश्यम् तत्कोऽपि नित्यं निजबन्धुतायाः सुस्मृर्पते नापि वियोगदुःखम् ॥ ४२ ॥ लक्ष्मीसमालिङ्गितपीनवक्षाः सलीलमालम्बितभूरिभार क्षतारिचक्रश्चरितं विधातुं राजानुजिज्ञासति चक्रपाणेः ॥ ४३ ॥ प्रलयाङ्भ्यां श्रुवः ॥ ५९ ॥ अभिमानमपास्य गौरवेण स्वयमेवैष नृपो विवेकदृश्धा । करणीयविधिं निवेद्य शश्वत्प्रतिशुश्रुषति मित्रबान्धवेभ्यः ॥ ४४ ॥ शदेः शितः ॥ ६० ॥ म्रियतेर्लङलिङोश्च ॥ ६१ ॥ सुमनोरमविग्रहं नरेन्द्रं दुरवापं मनसापि चिन्तयन्तीम् । अमृत म्रियते विशीर्णवार्ता रिपुसेना विरहातुरेव नारी ॥ ४६ ॥ स्मृत्वापि रिपुम्रियेत मन्ये युद्धे बाहुसहसभाजमेकम् । दृझा किमु भीतिसन्नचित्ताः करणीयो हि महान्सुहृन्न शत्रुः ॥ ॥ ४६ १. अस्योदाहरणपदं नोपलभ्यते . २. विशीयमाना मकारोऽधिकः प्रक्षिप्तः. ३ इति भवेत्. ‘शदेः शितः' इखस्योदाहरणसंभवात्. | | १० रावणार्जुनीयम् । पूर्ववत्सः नासिसिपन कानने पुरे वा जनतैतदुजरक्षिता सुखेन । शरदिन्दुमयूखजालकान्ता भुवनेषु न्यविवक्षि(विक्ष)तास्य कीर्तिः॥ ४७ ॥ अाम्प्रत्ययवत्कृष्टम्रोऽनुप्रयोगस्य ॥ ६३ ।। ईक्षांचक्रे कश्चिदासाद्य मार्गानीहांचक्रे चादृतो देवलोकः । शो यदुच्छति द्रधुमाशास्तद्वलोक संविधतेऽत्र भूप ॥ ४८ ॥ पात्यत्र भूपे जनबचनाय च्छद्म प्रयुङ्गे यदि नाम कश्चित् । सदैष दोषाहितचित्तमोहो विषं विनाशाय ननृपयुङ्गे ॥ ४७ ॥ समः क्ष्णुवः ॥ ६५ ॥ भुजोऽनवने ॥ ६६ । । अमुं नृपं संक्ष्णुवते मदेन ये मतङ्गजाः सिंहमिवात्मतेजसा प्रसह्य ते खण्डितसंपदुत्सवा वनानि संप्राप्य फलानि भुञ्जते ॥ ६० ॥ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने ।। ६७ ।। आरोहयन्तेऽस्य गजौन्नरेन्द्राः शिक्षागुणेनानमितोत्तमाङ्गा पश्यन्ति येऽमुं विनयेन भृत्यातैः श्रीयुतैर्दर्शयते च राजा ॥ ११ ॥ भीस्म्योर्हेतुभये पुरोऽस्य यो भीषयते समाश्रितः प्रसादवानित्यभिमानमोहितः । तमेष विस्मापयते यथा जनं पुनर्यथान्यो विकरोति नेदृशम् ॥ १२ ॥ गृघिवञ्योः प्रलम्भने ॥ ६९ ॥ कृतार्थनादेने)ष न कालयापनैः समाश्रितान्वश्वयते सतां मतः । न नर्मगोष्ठद्यां च रहस्युपागतं सुहृज्जनं गर्धयते सुहृप्रियः ॥ १३ ॥ लियः संमाननशालीनीकरणयोश्च ॥ ७० ॥ आलापयते नृपान्समेतान्धनदानेन समानतोत्तमाङ्गान् । अपलापयते विपश्चितश्च प्रतिभाष्य प्रसभं प्रजल्पितेन ॥ १४ ॥ मिथ्योपपदात्कृष्ओोऽभ्यासे ॥ ७१ ॥ तेन पीन()सङ्गमेषु()वाचं मिथ्या कारयतेऽस्य यः पुरस्तात् । १. ‘न्यविविक्षतास्य’ इति तूचितम्. २. ‘गजा नरेन्द्रः’ इति भवेत.