पृष्ठम्:रामायणमञ्जरी.pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९३
काव्यमाला ।


आश्चर्यनिधये मायाविधये विधये नमः ।
चिन्त्यमानोऽपि यः क्षिप्रं विदुषामपि वञ्चकः ॥ ७७ ॥
छन्दानुगास्तव प्रायः प्रियाः स्वच्छन्दवादिनः।
प्रियं वदन्ति न हितं यदेतेऽप्यत्र मन्त्रिणः ॥ ७८ ॥
नमोऽस्तु प्रियवादिभ्यो धूर्तेभ्यः स्वामिनां पुरः ।
ये पथ्यं कटुकं वक्तुं स्वप्नेष्वपि न शिक्षिताः ॥ ७९ ॥
अमुष्मिन्विभवोद्याने शीर्णे तिष्ठन्ति न क्वचित् ।
लक्ष्मीलताषट्चरणा धूर्ता मधुरवादिनः ।। ८० ॥
ऐश्वर्यं यदि रक्ष्यं चेत्प्रियं यदि च जीवितम् ।
तत्स्वयं त्यज्यतां तूर्णं काकुत्स्थायैव मैथिली ॥ ८१ ॥
कथाशेपोत्सवा यावन्न लङ्का शून्यतां गता ।
रामायैव स्वयं तावद्दीयतां देव मैथिली ॥ ८२ ।।
अप्रमादी महोत्साहः स्थितः सद्धर्मवर्तमनि ।
न रामः संयुगे जेतुं शक्यः सर्वैः सुरासुरैः ॥ ८३ ॥
अपरित्यक्तशीलानां शूराणामप्रमादिनाम् ।
सत्यव्रतानां धीराणां जयश्रीरपराङ्मुखी ॥ ८४ ।।
गुणानुरागी लोकोऽयं प्रतिष्ठा लोकसंभवा ।
प्रतिष्ठा यशसो मूलं यशोलुब्धा विभूतयः ॥ ८५ ।।
नयानुयायिनी लक्ष्मीरप्रमादोदयो जयः ।
प्रभावप्रभवा शक्तिर्गुणमार्गानुगं यशः ॥ ८६ ॥
श्रीरियं नीतिनलिनी विलासकलहंसिका ।
नश्यत्येव परित्रस्ता दृष्ट्वा दुर्नयदुर्दिनम् ॥ ८७ ॥
जितेन्द्रियाणां संत्यक्तसङ्गानां विदितात्मनाम् ।
योगिनां भूमिपालानां सफला मन्त्रसिद्धयः ।। ८८ ॥
भव शीलधरो राजन्व्यसने मा कृथा मतिम् ।
त्यक्त्वा कुमतिमायान्ति सदाचारं विभृतयः ।। ८९ ॥


१.'वः प्रि' शा.