पृष्ठम्:रामायणमञ्जरी.pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
काव्यमाला ।


यथोक्तकारी सुग्रीवः कालेऽस्मिञ्जलसंकुले ।
सहसोद्योगयात्रायां मिथ्यैवायास्यते कथम् ॥ २१ ॥
वनवासपरिक्लिष्टं तं चिरावाप्तवल्लभम् ।
वक्तुं स्वकार्यं तात्पर्यादकाले कथमुत्सहे ॥ २२ ॥
उपकारफलं तुल्यं देहीति विगतत्रपः ।
यो वक्ति निजमौचित्यं लुनीते स्वकरेण सः ॥ २३ ॥
स मे प्रियावियुक्तस्य ज्ञात्वा जीवितसंशयम् ।
प्रियं प्रियस्य सुहृदः स्वयमेव करिष्यति ॥ २४ ॥
इति कृच्छ्रेऽप्यनौचित्यविमुखं राघवानुजः ।
राघवस्य वचः श्रुत्वा तथेति प्रत्यपद्यत ॥ २५ ॥
इति प्रावृड्वर्णनम् ॥ १॥
निःसपत्नं निजं राज्यं प्राप्य प्लवगपुंगवः ।
बभूव वल्लभासक्तो राज्यं संत्यज्य मन्त्रिषु ॥ २६ ॥
तं विस्मृतसुहृत्कार्यं दयितारतिलालसम् ।
उवाच हनुमानेत्य दंष्ट्रांशुविषदाननः ॥ २७ ॥
साधवः पदमासाद्य विपुलं विपुलाशयाः ।
संपदं बहु मन्यन्ते मित्त्रोच्छिष्टसुखोत्सवाम् ॥ २८ ॥
रत्नभूम्यादिलाभानां मित्रलाभो महोदयः ।
आत्मकार्यं न कुरुते मित्त्रकार्यं करोति यः ॥ २९ ॥
इमां प्राणपणेनापि श्रियमिच्छन्ति मानिनः ।
सुहृदामुपकाराय द्विषतां विग्रहाय च ॥ ३० ॥
व्यवहारे सदाचारं मित्त्रं विभवसंभवे ।
शक्तौ परोपकारं च स्मरन्ति सुकृतोचिताः ॥ ३१ ॥
गुणः साधोर्बहुगुणः पात्रे दानमिवोज्ज्वलम् ।
अकृतज्ञो विनष्टोऽसौ बीजमुप्तमिवोषरे ॥ ३२ ॥
अल्पमप्युपकारं च मेरुतुल्यं स्मरन्ति ये ।
विस्मरन्त्यपकारं च धन्या श्रीस्तत्समागमात् ॥ ३३ ॥