पृष्ठम्:रामायणमञ्जरी.pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९१
रामायणमञ्जरी।


राघवेण कृतं यत्ते राघवो यत्करोति ते ।
तत्कार्यकालो यात्येष तव लज्जाकरः परः ॥ ३४ ॥
प्राणपीडामपि चिरं सहते विरहार्दितः ।
स्वयं न प्रेरयत्येव सत्त्वमौचित्यसागरः ॥ ३५ ॥
दुष्करेष्वपि कार्येषु परेषां सततोदिताः।
स्वकार्याभ्यर्थनादैन्यमौनिनो मानिनः परम् ॥ ३६ ॥
रामस्य कृत्यं कुरुते निःसंख्या हरिवाहिनी ।
वयं विधेयास्त्वं नाथः किमन्यज्जृम्भतां यशः ॥ ३७॥
समीरणसुतस्येति वचः श्रुत्वा कपीश्वरः ।
संदिदेशातुलबलं नीलं सेनासु नायकम् ॥ ३८ ॥
कपीनां विपुलं सैन्यं शैलद्वीपान्तचारिणाम् ।
निःशेषं मे समायातु पूर्णमासी परोऽवधिः ॥ ३९ ।।
सप्तरात्रमतिक्रम्य दृश्यते यस्य नागमः ।
राजदण्डहतेनायं लोकस्तेन न दृश्यते ॥ ४० ॥
इति सर्वान्समादिश्य प्लवगान्प्लवगेश्वरः ।
विवेशान्तःपुरं कान्तासंभोगालिङ्गनोत्सुकः ॥ ४१ ।।
अथ गौरीपतिगलश्यामले जलदागमे ।
वृत्ते बभूव रामस्य शरद्विरहशोकदा ॥ ४२ ॥
वृष्टिच्छेदविभक्तासु दिक्षु नीले नभस्तले ।
कान्तिर्जगाम जनतानयनानन्दबन्धुताम् ॥ ४३ ॥
याते जलधरासारे राम बाप्पावशेषताम् ।
हंसा सचामरस्फारा विवभुः कमलाकराः ॥ ४४ ॥
हंसैः सप्तच्छदैः काशैः कुमुदैश्चन्द्ररश्मिभिः ।
दिशः शुभ्रीकृता जग्मुः काकुत्स्थस्यैव कालताम् ॥ ४५ ॥
शिखण्डिकेकाः कटुतां प्रियतां हंसनिःस्वनाः ।
ययुः स्वावसरे सर्वः प्रायेण जनरञ्जकः ॥ ४६ ॥


१. 'इति' शा०, २. 'नान' क. ३. 'मत्ततां' क.