पृष्ठम्:रामायणमञ्जरी.pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
रामायणमञ्जरी ।


सा भयोद्भ्रान्तनयनभ्रमद्भमरविभ्रमा ।
लतेव मारुतावर्तवलिता पतिमैक्षत ॥ ३६६ ॥
राक्षसोऽपि भृशं क्रुद्धः शब्देनापूरयन्दिशः ।
दोर्भ्यामादाय वैदेहीं राघवाभिमुखोऽवदत् ॥ ३६७ ॥
धन्विनौ जटिलौ चित्रं विपरीतव्रतौ युवाम् ।
भक्ष्यौ मे विधिनादिष्टौ स्त्रीसहायौ प्रमादिनौ ॥ ३६८ ॥
दुर्बला मुनयो यत्र दुर्जया यत्र राक्षसाः ।
लज्जैव योषितो यत्र धनुषश्च परिग्रहः ॥ ३६९ ॥
इयं ते ललिता योषिन्मुनिमानसहारिणी ।
प्रमत्तस्येव राजश्रीः प्रसह्य ह्रियते मया ॥ ३७० ॥
राक्षसोऽहं विराधाख्यो विराधितजगत्त्रयः ।
विश्रुतो मुनिमांसादः काननेऽस्मिन्कृतास्पदः ॥ ३७१ ॥
इति संरम्भसावेगं ब्रुवाणे पिशिताशने ।
उवाच लक्ष्मणं रामः प्रियापरिभवार्दितः ॥ ३७२ ॥
सुता जनकराजस्य विवृद्धान्तःपुरे सती ।
पश्य लक्ष्मण मे पत्नी कृष्यते घोररक्षसा ॥ ३७३ ॥
इति भ्रातुर्वचः श्रुत्वा सौमित्रिः प्रत्यभाषत ।
संरम्भः कोऽयमार्यस्य दासे तव पुरः स्थिते ॥ ३७४ ॥
शरान्कोपाङ्कुराकारानित्युक्त्वाप्राहिणोत्खरान् ।
ये भित्त्वा राक्षसं घोरं रक्ताङ्का विविशुः क्षितिम् ॥ ३७५ ॥
विराधोऽप्यधिकं क्रुद्धः शूलं कालानलोल्बणम् ।
लक्ष्मणोरसि चिक्षेप रामस्तच्चाकरोद्द्विधा ॥ ३७६ ॥ .
शराभ्यां राक्षसं भित्त्वा शूलं शूलं दिवौकसाम् ।
तृतीयेनास्य चिच्छेद हृदि जीवितबन्धनम् ॥ ३७७ ॥
स बाणभिन्नहृदयः पतन्भुवि निशाचरः ।
जगाद रुधिरोद्गारवदनो गद्गदाक्षरः ॥ ३७८ ॥


१. 'मयि' शा०. २. 'विगलद्ग' ख.