पृष्ठम्:रामायणमञ्जरी.pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
काव्यमाला ।


विलोक्य राघवः सीतां भूषितां दिव्यभूषणैः ।
रत्नकल्लोलशबलां पीयूषलहरीमिव ॥ ३५३ ॥
पीताम्बरवतीं पुण्यरेणुव्याप्तां लतामिव ।
विस्मयौत्सुक्यहर्षाणां वश्यतां तुल्यमाययौ ॥ ३५४ ॥
इत्यत्रिदर्शनम् ॥ ९ ॥
ततः प्रातः प्रणम्यात्रिं हृष्टो रामस्तदाज्ञया ।
विवेश दण्डकारण्यं सानुजो दयितासखः ॥ ३५५ ॥
मुनिभिर्विहितातिथ्यो भूपातिशयविस्मितैः ।
उवाच वासवसमः स तत्र त्रिदिवोपमे ॥ ३५६ ॥
तमूचुर्मुनयो ज्ञात्वा रामं विश्रुतविक्रमम् ।
त्वद्वीर्यगुप्तमधुना निर्विघ्नं तात नस्तपः ॥ ३५७ ॥
वर्णाश्रमाणां गुरवस्तपस्त्राणात्तपस्विनाम् ।
त्वद्विधाः पृथिवीपाल हेलया फलभागिनः ॥ ३५८ ॥
इत्युक्त्वा मुनिभिः प्रीत्या पूजितो रघुनन्दनः ।
स्थित्वा तत्र निशामेकां वनं प्रातर्व्यगाहत ॥ ३५९ ॥
स वीरः सह जानक्या व्रजन्धन्वी सलक्ष्मणः ।
ददर्श कज्जलश्यामं निशीथमिव राक्षसम् ॥ ३६० ॥
व्याजृम्भि पिङ्गलश्मश्रुप्रभापरिकराननम् ।
खद्योतापूर्णपर्यन्तगुहागेहमिवाचलम् ॥ ३६१ ॥
मलिनेनातिमहता घनशोणितवर्षिणा ।
निजेन पातकेनेव संवीतं गजचर्मणा ॥ ३६२ ॥
दीप्तशीलिशिखाप्रान्तप्रोतकेसरिकुञ्जरम् ।
अकालप्रलयारम्भमिव भूतभयंकरम् ॥ ३६३ ॥
नासापुटकुटीनिर्यन्निःश्वासप्रलयानिलैः ।
कुर्वाणं फुल्लसालानां कम्पातङ्ककदर्थनाम् ॥ ३६४ ॥
तं वीक्ष्य चकिता सीता लोलैरालोकितैर्दिशाम् ।
चकार हरिणीनेत्रवर्गसर्गमिवासकृत् ॥ ३६५ ॥