पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. वंशे तस्य वभूषु र्भर्त्तुर्भुवनस्य 'भू[पतयः | कौर्त्तिसुरसिन्धुधवलोल्लङ्गितजलधिक्षालितत्रिभुवनाः ॥ ६ ॥ वंश इत्यादि । उभयत्रापि ममं सुगमञ्च एकत्र कौर्त्तिश्च सुरमिन्धुश्चेति इन्दगर्भता भगौरथेन सुरसिन्धोरवतारात् । अपरच कौर्त्ति: सुरसिन्धुरिवेति गर्भ: । साधर्म्यन्तु धवलिमजलधिलङ्घन त्रिभुवन चालनलचणमिति विशेषः ॥ ६ ॥ ये वसुधां गोत्रभिदं ईशाहौनमुत्तोलयितारः । दधुरधर]यन्तः स्वरूपचितदोषमविभरुस्विदिवम् ॥ ७ ॥ 21 ये वस्वित्यादि। ये भूपा ईशस्य प्रभोरलङ्कारभृतं अहीनं सज्जनमुत्तो(त्तु)लयितारः उन्नति नेतारः इति युक्तकारिणः । तथा गोत्रभिदं कुलाघातिनं स्वरूपचितदोषं स्वरूपेण सञ्चिता दोषा येन तमधरयन्तः अधः कुर्व्वन्त इत्यपि युक्तकारिण: | वसुधां दधुः अध्वरविधिना च चिदिवं विभराम्बभूवुः, उत्क्रान्तौ वा तथा कुर्य्युः शब्दच्छलमिलितमपरार्थमर्थान्तरमपि करतलमवतारयन्तः कवन्ते सन्तः ॥ तदयमर्थः । महेश्वरभूषणशेषं चेत् उपरिकृतवन्तः अतो धारकमपरमपश्यन्तः स्वयमेव धरित्रौधुरां दधुः । तथा इन्द्र (द) स्वरुण वज्रेण उपचितवाडचेदधरितवन्तः अतः स्वयं स्वर्गं विभ्रति स्म। अपि च नाकाधिपतिं अधोभुवनाधिपतिं मयें मर्स्याधिपतिमात्मानं नाकाधिपतिमनु विद्धानास्त्रिभुवनव्यवस्थिति मिति घटयत | हरिणोपासितधामाविग्रहपालः किलाभवद्राजा । नतभूभृत्पकिरथो गोचरत्नाकरेऽमुष्मिन् ॥ ८ ॥ हरिणेत्यादि। अमुश्मिन् गोत्रे कुले रत्नाकरे पुरुषरत्नानां आकरे परियो दशरथो नाम राजाभूत् । हरिणोपासितधामा वासुदेवेन रामरूपेण उपासितमाश्रितं धाम गृहं यस्य अतएवाविग्रह- पालः अस्य वासुदेवस्य विग्रहं मूर्त्ति रामं पालितवान् यद्वा विग्रहपाल विग्रहं संग्रामं पालयति गच्छति संग्रामगतः सन् हरिणा इन्द्रेण उपासितधामा उपाभितमर्चित घाम शौर्य्यं यस्य । तेन हि दशरथेन देवकार्य्यानुरोधेन मङ्गराङ्गनप्रणयिना दुर्जयदनुतनुतनुजान् निर्जित्य विडोजा: स्वभुजशौर्य्यशौटौर्ये ग्राचार्य्यः कृतः । अथवा विग्रहान् त्यक्तायुधगर्व्वान् पालयति अतएव नतभूभृत् नताः प्रणताः भूभृतो- राजानो यस्यं वा ॥ अन्यत्र अथानन्तरं विग्रहपालो राजाभवत् हरिणा सिंहेन खधामतोऽप्यधिकतया उपासितमभ्यर्हितं स्वीकृतं धाम विक्रमो यस्य मिंहतोऽपि महाविक्रम इत्यर्थः । नतभूभृत्पतिः प्रणतराजराजि: शेषं पूर्व्ववत् । राजेति चन्द्राभिधायिपदेन श्लेषोपमा । यथा चन्द्रो गोत्रे गां पानीयं चायत इति अपां पत्यौ रत्नाकरे ₹ The portion bracketted has been restored from the commentary. २ Comm. नाम | ३ Comm यस्मिन्