पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामचरितं । श्रौधनाय नमः सदा । प्रथमः परिच्छेदः । श्रीः श्रयति यस्य कण्ठं कृष्णं तं विभ्रतं भुजेनागं । दधतं कं दामजटालम्बंश शिखण्डम [एड] नं वन्दे ॥ १ ॥ श्रौघनाय नमः | श्ररित्यादि । तं शशिखण्डमण्डनं महेश्वरं वन्दे । यस्य कण्ठं कृष्णं श्यामं शौर्णशवलज्वालयेत्यर्थात् । श्रीः शोभा श्रयति । भुजेन अगं शेषं विभ्रतं, कं दाम कपालमाला जटालम्बे जटालम्बि दधतं । एक: पचः || पुण्डरीकाक्षपचे तु तं कृष्णं वासुदेवं वन्दे । यस्य कण्ठं श्रीलक्ष्मीः प्रयति कण्ठालिङ्गनं करोतीति यावत् । भुजेन बाहुना अगं पचतं गोबर्द्धनाख्यं विभ्रतं कं शिर: दामजटालं दाना बालरज्चा जटालं दधतं वंशो वाद्यवेणु: शिखण्डो मयूरपिच्छं तौ मण्डने यस्य इत्यपरः पचः ॥ १ ॥ कंसहर: कम्बलिदमनपादः सहिमाविभू रचयतात् वः । येन प्राक् सुरसेना विषमाशुगदाहतोपकृता ॥ २ ॥ कंस इत्यादि । म हरः महेश्वरः । कं सुखं वो रचयतात् । कम्बलो सास्तावान् बलीबईः। वाहनत्वात् तस्य दमनं पदमर्यस्य अवि: पर्व्वतः । अविर्भधे रवावद्रावित्यजयः | हिमा विर्हिमगिरिस्तस्माद्भूतेति हिमा[व]भूगौरी तथा सह वर्त्तत इति सहिमाविभू: सगौरीक: | विष[मा ] शुगः कामदेवः तस्य दाहात् भस्मोकरणात् । सुरसेना देवचमू: । येन प्राक् प्रथममपकृता पश्चादुपनैवेति प्राक्पदाभिप्रायः अन्यत्र म कंसहरी वासुदेवः कं सुखं रचयतात्, वलिरसरः स हि त्रिविक्रमरूपेण हरिणा पदाक्रान्या दान्तः | हि हेतौ माविभु: लक्ष्मीपतिः । प्राक्सुरा: पूर्व्वदेवा: असुराः । तेषां सेना चमूः । विषमा क्रूरा | श्राश शौघ्रं येन गदाहता सती उपकृता ; “हता हि हरिणा दैत्याः प्राप्नुवन्ति परां गतिं" ॥ २ ॥