पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४५५) दिक्पालैरित्यादि--तत्र निकुम्भिलोद्देशे उभे अपि सेने महद्विपुलं कदनं विनाशनं युद्धं वा प्राकुरुतां कृतवन्तौ । तानि रक्षांसि निर्जित्य पौलस्त्य- लक्ष्मणौ विभीषणो लक्ष्मणश्च द्रुतं शीघ्रमैतां गतवन्तौ । 'इण् गतौ ।' आट् वृद्धैिः ॥ २९ ॥ तत्रेन्द्रजित मैक्षेतां कृतधिष्ण्यं समाहितम् । सोऽजुहोत्कृष्णवर्त्मानमामनन्मन्त्रमुत्तमम् ॥ ३० ॥ तत्रेत्यादि-तत्र निकुम्भलायां तावैक्षेतां दृष्टवन्तौ । इन्द्रजंतं कृतधिष्ण्यं कृताग्न्यगारम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवर्त्मनमजुहोत् हुतवान् । मन्त्रमुत्तममामनन् आवर्तयन् । 'ना अभ्यासे ।' शतार 'पाना- ध्मास्थाम्नादाणदृश्यर्तिसतिंशदसदां पिब |७| ३ | ७८ । इत्यादिना मना देशः ॥ ३० ॥ अध्यायच्छकजिद्रह्म समाधेरचलन्न च । तमाह्वयत सौमित्रिरगर्जच भयङ्करम् ॥ ३१ ॥ अध्यायदित्यादि-शऋजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । “ध्यै चिन्तायाम् आत्वं शिति । न च समाधेश्चित्तवृत्तिनिराधादचलत् चलितवान् तं तथाभूतमिन्द्रजितं सौमित्रिर्युद्धायाह्वयत आहूतवान् । भयंकरं चागर्जत शब्दितवान् ॥ ३१ ॥ अकुप्यदिन्द्रजित्तंत्र पितृव्यं चागदद्वचः । त्वमत्राजायथा देह इहापुष्यत्सुरामिषैः ॥ ३२ ॥ अकुप्यदित्यादि-तत्र तस्मिन्नाह्वानं गर्जितं च कृतवति सति अकुप्यत् क्रुद्धः ॥ ‘कुप क्रोधे’ दैवादिकः। पितृव्यं च पितृभ्रातरं विभीषणम् | पितृशब्दाद् भ्रातरि 'पितृव्यमातुलमातामहपितामहाः ४ । २ । ३६१ इति व्यन्निपातितः । वचो वक्ष्यमाणमगदन् उक्तवान् । अत्रास्मिन् राक्षसकुले त्वमजायथाः जातोऽसि ।‘जनी प्रादुर्भावे ।' दैवादिकोऽनुदात्तेत् । इह च देहः सुरामिषैर- पुष्यद् वृद्धिं गतः । पुषिर्देवादिकः । अत एव 'दिवादिभ्यः श्यन् | ३ | १ । ६९ ।' इति श्यन् । देहमपुष्य इति पाठान्तरम् । तत्र देहं पोषितवानसि अन्तर्भावितण्यर्थो द्रष्टव्यः ॥ ३२ ॥ १ अग्निमित्यर्थः । 'बर्हिः शुष्मा कृष्णवर्मा' इत्यमरः ।