पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४५४) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - सनार्थशब्दकर्म्माकर्मकाणामणि कर्त्ता स णौ । १ । ४ । ५२ ।। इति कर्मसंज्ञा । निकुम्भिलामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लङ् ॥ २५ ॥ मा स्म तिष्ठत तत्रस्थो वध्योऽसावहुतानलः । अस्त्रे ब्रह्मशिरस्यु स्यन्दने चानुपार्जिते ॥ २६ ॥ मा स्मेत्यादि-मा स्म तिष्ठत मा विलम्बध्वं, गच्छत । 'स्मोत्तरे लङ् च ।४।३ । १७६ ।' यतस्तत्रस्थो निकुम्भिलास्थोऽसावहुतानल: अकृ- तानिकार्यो वध्यः हृन्तुं शक्यः । 'शार्क लिङ् च | ३|३|१७२' इति चकारात् 'कृत्याश्च' इति वचनात् 'हनो वा यद्वधश्च वक्तव्यः' इति वार्तिकेन यत् १ कथम हुतानलो वध्य इति चेत् अस्त्रे ब्रह्मशिरसि ब्रह्मशिरोनाम्नि उप्रे दुष्प्रयोग स्यन्दने च अनुपार्जितेऽप्राप्ते सति ॥ २६ ॥ कथमुभयं तेनोपार्ज्यत इत्याह । ब्रह्माऽधाद्वधं तस्य तस्मिन्कर्मण्यसंस्थिते । प्रायच्छदाज्ञां सौमित्रेर्यूथपानां च राघवः ॥ २७ ॥ ब्रह्मेत्यादि - यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाप्ते ब्रह्मा वधं तस्यादधात् धारितवान् । उक्तवानित्यर्थः । श्री द्विवचनम् । एवं विभीषण वचः श्रुत्वा राघवः सौमित्रेर्यूथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । 'दाणू दाने' | 'पाघ्राध्मास्थाम्नादाणदृश्यातसतिशदसदां पिबजिघ्रधम तिष्ठमनयच्छ- पश्यर्छधौशीयसीदाः |७|३|७८|| इति यच्छादेशः ।। २७ ।। तां प्रत्यैच्छन्सुसम्प्रीतास्ततस्ते सविभीषणाः । निकुम्भिलां समभ्यायन्न्यरुध्यन्त च राक्षसैः ॥ २८ ॥ तामित्यादि - ततस्ते सविभीषणाः सुसंप्रीतास्तामाज्ञां प्रत्येच्छन् प्रतीष्ट वन्तः प्रतिगृहीतवन्तः । 'इषु इच्छायाम्' | 'इपुगमियमां छः |७१३।७७७७१ ते च निकुम्भिलां समभ्यायन् समभिगताः । 'इण गतौ ।' तत्र च ये दिक्पाला: राक्षसाः तैर्न्यरुध्यन्त रुद्धाः प्रवेष्टुं पन्थानं न लब्धवन्तः । कर्मणि लङ् ।। २८ ।। दिक्पालै : कदनं तत्र सेने प्राकुरुतां महत् । ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्यलक्ष्मणौ ॥ २९ ॥ १ लङ्कायाः पश्चिमभागस्थायां तदाख्यायां गुहायां दुर्गायां वा । २ यद्यपि सम्पूर्वः स्थातिर्विनाशार्थोऽनुमन्यते, तथापि निष्ठायां प्रयोगोऽपि न दुष्टः, प्रयोगबाहुल्यात् ।