पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६०) भट्टिकाव्ये जयमङ्गलासमेते- वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते । तं प्रोर्णनूपुरुपलैः सवृक्षैराबभौ कपिः ॥ ३६ ॥ वानरमित्यादि - वानरं प्रोर्णुनविषुः छादयितुमिच्छुरक्षः विदिद्युते त्रिद्यो- तते स्म । 'द्युतिम्वाप्योः सम्प्रसारणम् | ७|४|६७ |' इति सम्प्रसारणम् । कपिरपि तमक्ष उपलैर्वृक्षसहितैः प्रोणुनूषुः सवरीतुमिच्छुराबभौ भाति स्म । ऊणतेः पूर्ववद्विभाषेट् । इट्रपक्षे गुणः । अन्यत्र 'अज्झनगमां सनि |६|४|१६|' इति दीर्घः । उभयत्र 'नन्द्राः संयोगादयः । ६।१।३ ।' इति रेफो न द्विरुच्यते ॥ ३६ ॥ स्वां जिज्ञापयिषू शक्ति बुभूषू नु जगन्ति किम् | शस्त्ररित्यकृषातां तौ पश्यतां बुद्धिमाहवे ॥ ३७ ॥ [ नवमः - स्वामित्यादि --तौ कपिराक्षसौ किं स्वां शक्तिं जिज्ञापयिपू बोधयि तुमिच्छू इव बुभूर्पू त्रिजगन्ति किं नु त्रैलोक्यं शस्त्रैः भर्तु पूरयितुमि- च्छू इत्येवं बुद्धिमाहवे पश्यतां प्रेक्षकाणाम् अकृषातां कृतवन्तौ । जिज्ञा- पयिषू भूर्पू इति विभाषेट् । तत्र 'भृञ् भरणे' इति भौवादिकस्य ग्रहणम् । 'सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृचूर्णुभरज्ञपिसनाम् । ७। २ । ४९ ।' इति सूत्रे 'भर' इति शपा निर्देशात् ॥ ३७ ॥ मायाभिः सुचिरं क्लिष्टा राक्षसोऽक्लिशितक्रियम् । सम्प्राप्य वानरं भूमौ पपात परिघाऽऽहतः ॥ ३८ ॥ मायाभिरित्यादि--राक्षसो मायाभिः सुचिरं किट्वा केशं कृत्वा वानर- मक्किशितक्रियमनभिगृतव्यापारं संप्राप्य परिघाहतो भूमौ पापत । 'किशः क्त्वानिष्ठयोः ।७।२।५० ।। इति विभाषट् ॥ ३८ ॥

अथ युग्मम् । पवितोऽनुगुणैर्वीतैः शीतः पूत्वा पयोनिधौ । बभञ्जाऽध्युपितं भूयः क्षुधित्वा पत्रिभिर्वनम् ॥ ३९ ॥ पवित इत्यादि-कपिरपि पयोनिधौ पूत्वा स्नात्वा अनुगुणैरनुकूलैः शीतैवतैः पवितः पवित्रीकृतः । 'पूश्च १७१२१५१॥ इति विभाषट् । भूयः पुनवन भञ्ज । कीदृशम् । पत्रिभिः पक्षिभिः क्षुधित्वा क्षुधितैर्भूत्वा । अध्युक्ति कृतनिवासम् । 'वसतिक्षुधोरि |७|२|५२ | इती ॥ ३९ ॥