पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | ( २५९ ) विभाषेतट् । तत्र दिवेरिडभावपक्षे 'छोः शूडनासिके च |६|४|१९|' ऋधेः आप्ज्ञप्पृधामीत् |७|४|५५१ इतीत्वमभ्यासलोपश्च ॥ ३२ ॥ भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः । अहंस्ततः स मूर्च्छावान्संशि श्रीपुरभूद्धजम् ॥ ३३ ॥


भूय इत्यादि --तं राजपुत्रम् अक्षं धिप्सुं दम्भितुं वश्चयितुमिच्छुम् । भूयः पुनरीप दिदम्भिषुः वञ्चयितुमिच्छुः । आहूयागच्छेत्यहन् हतवान् । ततः सोऽक्षः मूर्च्छावान् मूछीयुक्तः । ध्वजमात्मीयं संशिश्रीषुः संश्रय- तुमिच्छुः अभूत् भूतः । अत्र दम्भे: अयतेश्च 'सनीवन्तर्धभ्रस्जदम्भु- श्रिस्टृयूर्णुभरज्ञपिसनाम् |७|२|४९| इतीट् । अत्र श्रयतेरनिपक्षे 'अज्झन- गमां सनि | ६|४|१६|' इति दीर्घः । द्वितीयस्य च 'दम्भ इच्च |७|४|५६।१ इत्यभ्यासलोपः । दम्भेईलग्रहणस्य जातिपरत्वात्सिद्धमिति कित्त्वे अनुनासिक- लोपः । 'एकाचो वशो झष् झषन्तस्य रध्वोः |८|२|३७|' इति भष् | ‘खरि च |८|४||५५।' इति चर्ध्वम् ॥ ३३ ॥ आश्वस्याऽक्षः क्षणाल्लोकान्बिभ्रक्षुरिव तेजसा । रुषा बिभ्रजिषुप्रख्यं कंपिं बाणैरवाकिरत् ॥ ३४ ॥ आश्वस्येत्यादि --- क्षणात् क्षणमात्रेणाश्वस्य संज्ञां लब्ध्वा लोकान् जनान तेजसा क्रोधोत्थेन बिभ्रक्षुरिव । अथ स कपिं बाणैरवाकिरत् संछांदित- वान् । कीदृशम्-बिभ्रजिषुप्रख्यं अग्नितुल्यम् । विभ्रजिषुः, बिभ्रक्षुरिति “सनीवन्तर्धभ्रस्जदम्भाश्रस्वृ पूर्णभरज्ञपिसनाम् ।७ । २ । ४९ ।' इति विभा- पेट् । तत्रानिट्पक्षे 'स्को: संयोगाद्योरन्ते च | ८|२|२९|| इति सलोपः । 'त्रश्चभ्रस्जसृजमृजयज राजभ्राजच्छशां षः |८|२|३६ |' इति षः । इपक्षे सका- रस्य जश्त्वं शत्रुत्वं च ॥ ३४ ॥ संयुग्रुषु दिशो बाणैरक्षं यियविषुङ्कुमैः । कपिर्मायामिवाऽकार्षीदर्शयन्विक्रमं रणे ॥ ३५ ॥ संयुयूषुमित्यादि- बाणैर्दिश: संयुय्रपुं मिश्रयितुमिच्छुम् अक्ष कपिः द्रुमै ययात्रिपुः योतुमिच्छुर्मायामिवेन्द्रजालभिवाकार्षीत् कृतवान् । रणे विक्रमं दर्शयन् । यौतः सनि 'सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूणुभरज्ञपिसनाम्।७।२।२९॥ इति विभाषेट् । ‘ओः पुयण्ज्यपरे |७|४|८०|' इतीत्त्रम् | 'अज्झनगमां सान | '६।४।१६।' इति दीर्घः ।। ३५ ।। -