पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१३७) शानच् ।' नान्नलोपः । ६ । ४ । २३ ।' 'असोरल्लोपः । ६ । ४ । १११ ।' उव पृथिवीम् शुष्कां कृत्वा चूर्णयामि | पिष्ल संचर्णने ।' शुष्कचूर्णरुक्षेषु पिपः । ३ । ५ । ३५ ।' इति णमुल । अखिन्दानः स्वतेजसा स्वपराक्रमेण दैन्यम- भजन् अपरिश्राम्यन् | ‘खिद दैन्ये ।' पूर्ववल्लोपः ॥ ३७ ॥ भूर्ति तृणझि यक्षाणां हिनस्मीन्द्रस्य विक्रमम् । भनज्मि सर्वमर्यादास्तनचिम व्योम विस्तृतम् ॥ ३८ ॥ भूतिमित्यादि-यक्षाणां भूत सम्पदं तृणद्मि उत्सादयामि । 'उतृदिर् हिंसाऽनादरयोः ।" इन्द्रस्य विक्रमं हिनस्मि अपनयामि । 'हिसि हिंसा- यामू ।' 'इदितो नुम् धातोः ।७।१ । ५८ ।' तस्य श्नान्नलोपः । सर्व- मर्यादाश्च व्यवस्थाः सर्वेषां भनज्मि मर्दयामि । 'भञ्जो आमर्दने ।' 'श्ना- न्नलोपः । ६ । ४ ।२३।' तनच्मि व्योमें विस्तृतं सङ्कोचयामि । 'स्तृञ् आच्छा- दने' सौवादिकस्य रूपं न 'स्तृञ् आच्छादने' इति त्रैयादिकस्य | तब्चू सङ्कोचने ।' 'इनान्नलोपः । ६ । ४ । २३ ।। ॥ ३८ ॥ कस्मादेवं प्रवृत्तस्त्वमिति चेदाह -- न तृणेह्मीति लोकोऽयं मां विन्ते निष्पराक्रमम् । एवं वदन् दाशरथिरपृणग् धनुषा शरम् ॥ ३९ ॥ प्पराक्रमं निर्वीर्य विन्ते विचारयति । G न तृणेह्मीत्यादि-न तृणेह्मिन मारयामि इति कृत्वा । 'गृह हिसि हिंसायाम् ।' इनम् । 'तृणह इम् | ७ | ३ | ९२ ।' अयं लोको मां नि- विद विचारणे' इत्यस्मादात्मनेप- दिनः श्नम् । अल्लोपः । एवमुक्तेन प्रकारेण वदन् दाशरथि : धनुषा शरम् । अपृणक् पृणक्ति स्म । संयोजयामासेत्यर्थः । 'पृथ्वी संपर्के ।' लङि श्नम् हल्डथा- दिलोपः कुत्वम् || इति श्नम् विकरणनिदर्शनम् ॥ ३९ ॥ इतः प्रकीर्णकलोकानाह-- न्यवर्तयत् सुमित्राभूस्तं चिकीर्षु जगत्क्षयम् । ऐक्षेतामा श्रमादाराद गिरिकल्पं पतन्त्रिणम् ॥ ४० ॥ न्यवर्तयदित्यादि- तं रामं जगत्क्षयं चिकीर्षु कर्तुमिच्छुम् । सुमित्राभू- लक्ष्मणो न्यवर्तयत् निवर्तितवान् । 'भ्रातः अलं कोपेन, त्वया सार्धं कः - --- १ वसुधोर्वी व सुन्धरा ।' इत्यमरः | २ 'तेजः प्रभाव दीप्तौ च बले शुक्रे' इत्यमरः । ३ ‘विभूतिर्भूतिरैश्वर्यम्' । इत्यमरः । १४ व्योम आकाशमित्यर्थः । 'व्योम पुष्करमम्बरम् ।' इत्यमरः ।