पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३६ ) भट्टिकाव्ये जयमङ्गलासमेते- [पष्ट:- क्रियः | ३|१|८७ |' इति कर्मवद्भावेन प्राप्तस्य चिण: 'न रुधः | ३|१|६४।१ इति निषेधः । तेन सिजेव भवति । 'झलो झालि |८|२|२६|' इति सिचो लोप: । 'झपस्तथोर्धोऽधः ||२|१०|| झलां जशू झशि |८|४|१५३' इति धत्वजश्त्वे । कोपेन च समभावि सम्भूतम् । 'चिण् भावकर्मणोः ।३।१।६६।' इति भावे चिण् | त्रैलोक्यदौःस्थ्यावबोधाज्जातखेदः सन् आयतं दीर्घे न्यश्वसीत् निःश्वसितवान् । 'हृयन्तक्षणश्वसजागृणिश्वेदिताम् |७|२|५| इति वृद्धिर्न भवति । मुहुरिति सर्वत्र योज्यम् ॥ ३४ ॥ इति सिजधिकारः || अयाऽऽलम्ब्य धनू रामो जगर्ज गजविक्रमः । रुध्मि सवितुर्मार्ग भिनमि कुलपर्वतान् ॥ ३५ ॥ - इतः प्रभृति श्रमप्रकरणमधिकृत्याह-- अथेत्यादि - अथानन्तरं गजस्य विक्रम इव विक्रमो यस्य तादृशो रामो धनुरा- लम्ब्य गृहीत्वा जगर्ज विस्फूर्जितवान् । धनू राम इति ‘लोपे पूर्वस्य दीघऽणः |६|३|११|१|' इति दीर्घः । 'गर्ज गर्जने' । किं जगर्ज | सवितुः सूर्यस्य मार्ग पन्थान रुणमि आवृणोमि । शरैरित्यर्थात् | 'रुधादिभ्यः अम् |३|१२|७८।१ तथा भिनद्मि विदारयामि कुलपर्वतान् ॥ ३५ ॥ रिणचिम जलधेस्तोयं विविनचिम दिवः सुरान् । क्षुणझि सर्पान् पाताले छिनझि क्षणदाचरान् ॥ ३६॥ रिणचमोत्यादि -- जलधेस्तोयं रिणचिम रिक्तीकशोम | रिचिर् विरेचने । दिवः स्वर्गात् सुरान् विविनच्मि पृथक्करोमि । विचिर् पृथग्भावे ।' क्षु- चूिर्णयामि सर्पान पाताले । 'क्षुदिर् पेषणे ।' अट्कुप्वाङ्नुम्व्य- 'वायेऽपि । ८ । ४ । २ ।' इति णत्वम् । छिनभि क्षणदाचरान् राक्षसान् द्विधा करोमि । ‘ छिदिर् द्वैधीकरणे' ।। ३६ ॥ यमं युनज्मि कालेन समिन्धानोऽस्त्र कौशलम् | शुष्कपेपं पिनष्फ्युवमखिन्दानः स्वतेजसा ॥ ३७ ॥ यममित्यादि - - यममपि कालन तद्धीनेन मृत्युना युनज्मि सम्बन्नामि | अकौशलं समिन्धानः संवर्धयन् । निइन्धी दीप्तौ ।" आत्मनेपदेनो लट: १ महेन्द्रादीन् पर्वतानित्यर्थ: । 'महेन्द्रो मलय: सह्यः शक्तिमानृक्षपर्वतः । बिन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥' 'इत्युक्तेः । २ क्षणदायां रात्रौ चरन्तीति तानू ।