पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (८५) शितविशिखनिकृत्तकृत्स्स्रवत्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः । भयमुपनिदधे स राक्षसाना- मखिलकुलक्षयपूर्वलिङ्गतुल्यः ॥ ४५ ॥ - शितेत्यादि -- त्रिमूर्धो राक्षसानां भयमुपनिद्धे उपनिहितवान् । कीदृशः शितविशिखैस्तीक्ष्णविशिखैः निकृत्तानि छिन्नानि कृत्स्नानि सर्वाणि वक्राणि मुखानि यस्य सः । क्षितिमृदिव भूधर इव । कीदृशः क्षितिकम्पकर्णशृङ्गः क्षितेर्भूमेः कम्पेन कीर्णानि क्षिप्तानि शृङ्गाणि यस्य क्षितिभृतः । अखिलस्य सर्वस्य कुलस्य क्षये विनाशे यत् पूर्वलिङ्गं तेन तुल्यः असावप्यखिलराक्षस - क्षयस्य पूर्वलिङ्गतुल्यंः ॥ ४५ ॥ इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षणरूपे चतुर्थः परिच्छेदः । तथा लक्ष्यरूपे कथानके श्रीरामप्रवासो नाम चतुर्थः सर्गश्च । पञ्चमः सर्गः । निराकरिष्णू वर्तिष्णू वर्धिष्णू परितो रणम् | उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥ १ ॥ नेरेत्यादि-खरदूषणौ रणं परितः समन्तात् । 'अभितः परितः समया- निकषाहाप्रतियोगेऽपि' इति द्वितीया । चेरतुः भ्रान्तौ । निराकरिष्णू शत्रु- निराकरणशीलौ । वर्तिष्णू अभिमुखं वर्तनशीलौ, न तु पलायनशीलौ । वर्धिष्णू मायया महाप्राणोद्भावनशीलौ । उत्पतिष्णू नभ उत्पतनशीलौ । सहिष्णू शस्त्र प्रहारसहनशीलौं । सर्वत्र 'अलंकृग्निराकृञ् प्रजनोत्पचात्पतोन्मदरुच्यप- त्रपवृतुवृधुसहचर इष्णुच् । ३ । २ । १३६ ।' इति इष्णुच् ॥ १ ॥ तौ खड्गमुसलमासचक्रवाणगदाकरौ । अकामायुधच्छायं रजःसन्तमसे रणे ॥ २ ॥ तावित्यादि --रणे रणभूमौ रजःसन्तमसे । सङ्गतं तमः सन्तमसम् । अव- समन्धेभ्यस्तमसः । ५ । ४ । ७९ ।' इत्यच् । रजसा सन्तमसम् अस्मिन् इति रजःसन्तमसं तस्मिन् रजसा कृतान्धकारे तौ खरदूषणौ आयुधच्छायमायुधबा- - १ अन्नापि तदेव छन्दः । उपमाऽलङ्कारः ।