पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८४) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्थ:- क्षुण्णैः सम्पिष्टशरीरैः । भिन्नैः विदारितैः । विपन्नकैः नष्टेः । 'अनुक- म्पायां कन् |५|३|७६।' निमग्नैः परिभूतैः | उद्विग्नैर्भीतैः । संहीणैल- ज्जितैः । वयमपीदृशीं दशां प्राप्ता इति । दीनैः 'हा मातः हा भ्रातः' इत्येवं भाषमाणः । तत्र वृश्चिरुनिभुजिमस्जिविाजभ्यो: निष्ठायाम् 'ओदितश्च । ८ । २॥४५|' इति नत्वम् । 'चोः कुः |८|२||३०|' इति कुः । क्षुदिभिदिपदिभ्यो निष्ठायां 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः |८|२|४२|' इति दस्य च नः । संहीण इति 'नुदविदोन्दवाघ्राह्रीभ्योऽन्यतरस्याम् |८|२|५६॥ इति नः । 'दीङ् क्षये ।' इत्यस्य 'स्वादय ओदितः' इति 'ओदितश्च । ८ । २ । ४५ । इति नत्वम् ॥ ४२ ॥ केचिद् वेपथुमासेदुरन्ये दवथुमुत्तमम् । सरक्तं वमथुं केचिद भ्राजथुं न च केचन ॥ ४३ ॥ केचिदित्यादि——तेषां मध्ये केचित् वेपथुं कम्पम् । 'टुवेष्ट कम्पने' आसेदुः प्राप्ताः । अन्ये दवथुमुपतापम् उत्तमं महान्तम् । 'दुदु उप- तापे ।' केचिद्वमथुं छर्दनं सरक्तं सशोणितम् । टुवम् उद्गिरणे । भ्राजथु शोभां नैव केचन न केचिदपि आसेदुरिति पूर्वेणान्वयः । 'टुभ्राजू दीप्तौ ।' स- र्वत्र ‘द्वितोऽथुच् । ३ । ३ । ८९ ।' इत्यथुच् ४३ ॥ मृगयुमिव मृगोऽथ दक्षिणेर्मा दिशमिव दाहवतीं मरावुदन्यन् । रघुतनयमुपाययौ त्रिमूध विषमृदिवोग्रभुखं पतन्त्रिराजम् ॥ ४४ ॥ मृगयुमित्यादि -- अथैतस्मिन् राक्षसविध्वंसनप्रस्तावे त्रिमूर्ध: त्रिशिरा नाम राक्षसः रघुतनयमुपाययौ उपागतः । मृगयुमिव लुब्धकमिव । मृगान् यातीति मृगयुः 'मृगय्वादयश्च' इत्यौणादिककुप्रत्ययान्तः । दक्षिणेर्मा दक्षिणे ईमें व्रणं यस्येति। 'दक्षिणेर्मा लुब्धयोगे | ५ | ४|१२६ ।' इत्यनिच् । यथा मृगो लुब्धक- ब्रणितदक्षिणाङ्गः तमेव मरणायोपयाति । दिशमिव दाहवतीं यथा दिशं दावाग्नियुतां मरौ निर्जले देशे मृग उदन्यन् उदकपानाभिलाष उपयाति । उद्- कमिच्छति । 'सुप आत्मनः क्यच् | ३ | १ | ८ |' इति क्यच् । उदकस्योदन्- भावः । 'अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । ७ । ४ । ३४ ।' इति निपातितः । तदन्ताल्लट् शतृप्रत्ययः । विषभृवि यथा विषधरः सर्प उग्रमुख भीषणमुखं पतत्रिराजं गरुडमुपयाति तद्वत्तमिति । राजाऽहः सखि- भ्यः॑ष्टच् । ५ । ४ । ९१ ।' ॥ ४४ ॥ । 6 १ अत्र ‘पुष्पिताग्रा' छन्दः । 'अयुजि नयुगरफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तलक्षणात् ।