पृष्ठम्:रामकथामञ्जरी.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'जटायू रावण- तद् बभूवादभुतं युद्धं गृध्र-राक्षसयोस्तदा । ॥४५|| युद्धम् । स छिन्न-पक्षः सहसा रक्षसा रौद्र-कर्मणा। निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥४६॥ क्रोशन्तीं राम रामेति रामेण रहितां वने । रावणस्य जगामादाय चाकाशे रावणो राक्षसेश्वरः । लङ्काप्रवेशः प्रविवेश पुरीं लङ्कां रूपिणीं मृत्यु मात्मनः ॥४७॥ दृष्ट्वा श्रमपदं शून्यं रामो दशरथात्मजः । रामस्यज़टा- दीनः शोक-समाविष्टो मुहूर्तं विहलोऽभवत् ॥४८॥ युषःसीता- ततः पर्वत-कूटाभं महाभाग द्विजोत्तमम् प्रवृत्तिः ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।।४।। तं. दीन-दीनया वाचा सफेनं रुधिर नमन् । अब्रवीद्विहगः क्षिप्रं रामं दशरथात्मजम् ॥५०॥ "सा देवी मम च प्राणा रावणेनोभयं हृतम् । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ।।१।। क्रमेण गला प्रविलोकयन् वनं ददर्श पम्पां शुभ-दर्श-काननाम् अनेक-नाना-विध-पक्षि-संकुला विवेश रामः सह लक्ष्मणेन ।।५।। (रूपिणीम् ) रूप-धराम् । ( विह्वल ) पर-बशः (पशकुटाभन पर्वत-शिखर-सदशम् । (तर्जातम् ) रुधिर-क्लिनम् ।