पृष्ठम्:रामकथामञ्जरी.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पादा ववाप्य रामस्य पपात भरतो रुदन् ॥१७४।। राम भरतः दुःखाभितप्तो भरतो राजपुत्रो महाबलः । संगमः उक्त्वार्य्येति सुकृद्दीनं पुनर्नोवाच किञ्चन । शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ॥१७५।। तावुभौ स समालिङ्ग्य रामश्चा श्रूण्यवर्तयत् जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।।१७६॥ कथञ्चिदभिविज्ञाय विवर्ण-वदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥१७७॥ आध्राय रामस्तं मूर्ति परिष्वज्य च राधकः । अङ्क भरतमारोप्य पर्यपृच्छत्स सादरम् ॥१७८।। "कनु तेऽभूत्र पिता तात, राजा यत्त्वमिहागतः । नहि त्वं जीवतस्तस्य बनमागन्तुमर्हसि ।' रामस्थ वचनं श्रुत्वा भस्तः प्रत्युवाच ह ॥१७९।। रामाय पिलू- "निष्क्रान्त-मात्रे भवति सह-सीते स-लक्ष्मणे । मुत्यु-श्रावणम् दुःख-शोकाभि भूतस्तु राजा त्रिदिवमभ्यागात्" ॥१८०( अवयित्) अत्यजत् ।। (जटिल ) जटाधरम् । (दुदर्शम् ) दुःखेन द्रष्टुं योग्यम् । गहि त्वं जीवितस्तस्य सेवा हिवेत्यर्थः निदिषन् ) स्वर्गम्