पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6⁰ राजतरङ्गिणी

निवार्य मरणोद्योगं मातुर्निवेंदखेदितः ।
ययौ प्रवरसेनोथ तीर्थोत्सुक्याद्दिगन्तरम् ॥ १२३ ॥
रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिं समाः ।
तस्मिन्क्षणे हिरण्योपि शान्ति निःसंततिर्ययौ ॥ १२४ ॥
तत्रानेहस्युज्जयिन्यां श्रीमान्हर्षापराभिधः ।
एकच्छत्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ १२५ ॥
भूपमद्भुतसौभाग्यं श्रीर्वद्धरभसाभजत् ।
विहाय हरिवाहूंश्च चतुरः सागरांश्च यम् ॥ १२६ ॥
लक्ष्मी कृत्वोपकरणं गुणे येन प्रवर्धिते ।
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकंधराः ॥ १२७ ॥
म्लेच्छोच्छेदाय वसुधां हरेरवतरिष्यतः ।
शकान्विनाश्य येनादौ कार्यभारो लघुकृतः ॥ १२८ ॥
नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् ।
तं कविर्मातृगुप्ताख्यः सर्वास्थानस्थमासदत् ॥ १२९ ॥
स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् ।
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ १३० ॥
सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः ।
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ १३१ ॥
यस्मिन्राजनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः ।
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ १३२ ॥
भङ्ग्यामुष्मिन्विद्धती स्वाभिप्रायप्रकाशनम् ।
वैदग्ध्यवन्ध्यतां नैति बुद्धिः कुलवधूरिव ॥ १३३ ॥
खिलीकृतखलालापे युक्तायुक्तविवेक्तरि ।
नायाति सेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ।। १३४ ॥