राजतरङ्गिणी
अथ रक्षः पतिर्लङ्कां नीत्वालंकरणं क्षितेः ।
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ ७५ ॥
यदासीत्पिशिताशा इत्यन्वर्थ नाम रक्षसाम् ।
तदा तदाज्ञाग्रहणे प्रापि तदृढिशब्दताम् ॥ ७६ ॥
रक्षःशिरःप्रतिच्छन्दैः स्थिरप्रणतिसूचकैः ।
सनाथशिखरान्प्रादात्तस्मै रक्षः पतिर्ध्वजान् ॥ ७७ ॥
पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये |
राज्ञां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः ॥ ७८ ॥
इत्थमा राक्षसकुलं प्राणिहिंसां निषिध्य सः ।
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ ७९ ॥
ततः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः ।
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्ग्यत ॥ ८० ॥
क्षुद्रैरुद्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च ।
न श्येनप्रमुखैर्व्याम्नि तद्राज्ये जन्तवो हताः ॥ ८१ ॥
अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः ।
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ ८२ ॥
दुर्गया प्रार्थितं राजन्पश्वाहारं विनैष मे ।
अनन्यसंततेः सुनुर्वरेणाद्य विपद्यते ॥ ८३ ॥
यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि ।
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ ८४ ॥
निर्णयो वर्णगुरुणा त्वयैवैष प्रदीयताम् ।
ब्राह्मणस्य पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ ८५ ॥
तपःस्थानपि ये जघ्नुर्ब्राह्मणप्राणलब्धये ।
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ ८६ ॥
१ प्राप इत्युचितम् ।