पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
द्वितीयस्तरङ्गः

तापसैर्भस्मरुद्राक्षजटाजूटाङ्कितैर्बभौ।
तस्य माहेश्वरी पर्षदिव भूमिपतेः सभा॥१२७॥
शिवलिङ्गसहस्रस्य प्रतिष्ठाकर्मणि प्रभोः।
प्रतिज्ञा प्रत्यहं तस्य नाभूद्विघटिता क्वचित्‌॥१२८॥
प्रमादात्तदनिष्पत्तौ शिलामुत्कीर्य कल्पिता ।
सहस्रलिङ्गी तद्भभृत्यैः सवैतोद्यापि दृश्यते॥१२९॥
तास तासु स वापीषु लिङ्गव्याजादरोपयत्‌।
स्वपुण्यपुण्डरीकाणां जन्मनेक्षपरम्पराम्॥१३०॥
स्थाने स्थाने जलान्तश्च बहुसंख्यैनिवेशितैः।
अनयन्नर्मदाभङ्गिं शिवलिङ्गैस्तरङ्गिणीः॥१३१॥
प्रतिलिङ्गं महाग्रामाः प्रत्यपाद्यन्त तेन ये।
पर्षदामद्य तद्भोगः कालेनान्तर्धिनमागतः॥१३२॥
अकरोत्स महाहर्म्यैर्महालिङ्गैर्महावृषैः।
महात्रिशूलैर्महतीं महामाहेश्वरो महीम्‌॥१३३॥
कृत्वा संधीश्वरं देहसंधानपितृकानने।
ईशानस्य गुरोर्नाम्ना व्यधादीशेश्वरं हरम्‌॥१३४॥
थेदां च भीमादेवीं च देशांश्चान्यान्पदे पदे।
स मठप्रतिमालिङ्गेैर्हर्म्यैर्निन्ये महार्घताम्॥१३५॥
स्वयंभूमिश्च तीर्थैश्च पूतं भक्तिविशेषतः।
स एव भोक्तुमज्ञासीत्प्राज्ञः काश्मीरमण्डलम्‌॥१३६॥
स्नातस्य निर्झराम्भोभिः पुष्पलिङ्गार्चनोत्सवैः।
राज्ञस्तस्य वनोर्वीषु मासः पुष्पाकरो ययौ॥१३७॥
स चातिरभ्यः काश्मीरो ग्रीष्मस्त्रिदिवदुर्लभः।
हिमलिङ्गार्चनैः प्रयाद्वनान्तेषु कृतार्थताम्‌॥१३८॥