पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

स शोचन्नात्मजं बाल्ये नीत्यै यां यन्त्रणां व्यधात् ।
आजन्मदुःखदायित्वं मेने तस्यात्मनस्तया ॥ १६७३ ॥
हतः स समरे वृत्त्या प्रवीरस्पृहणीयया ।
जज्ञे तेनातिवात्सल्यादङ्कशायीव घातितः ॥ १६७४ ॥
गात्रेषु हारान्पुत्रस्य यौवनव्यूढवक्ष॑सि ।
पश्यन्नात्मनि संकल्पैर्विह्वलः सोकृताशिषः ॥ १६७५ ॥
रक्षणीयो हतो बालो वृद्धस्त्वेवं स्वजीवितम् ।
रक्षाम्यनुचिताचारैजिंहायेति स चिन्तयन् ॥ १६७६ ॥
एवं स पुत्रशोकेन धृतावाच्यव्यथो व्यथन् ।
निनाय तापसावासे द्वितीयामपि यामिनीम् ॥ १६७७ ॥
कृतार्थनः प्रयागेण प्रयातुं भगवन्मठम् ।
शोकहारितधी रात्रौ न संकल्पमपि व्यधात् ॥ १६७८ ।।
लम्बेन्दुवदना सान्द्रावश्यायाम्भोस्रुवर्षिणी ।
रथाङ्गाकन्दिनी रात्रिः सशोकेवाथ सागमत् ॥ १६७९ ॥
क्षुत्पिपासापरिक्षामं प्रभुं वीक्ष्य स तापसः ।
प्रार्थ्यते स्म प्रयागेण प्रातर्भोक्तव्यसिद्धये ॥ १६८० ।।
उपनिन्ये विनिर्गत्य प्रविष्टस्तापसस्तयोः ।
सव्यञ्जनान्नपूर्णे द्वे पात्रे क्षणात्पुरः ॥ १६८१ ॥
कस्यापि गृहिणो यागोत्सवादेते मयाहृते ।
तस्मिन्नित्युक्तवत्यूचे विनिःश्वस्य प्रयागकः ॥ १६८२ ॥
राजन्स्वामिवियोगेस्मिन्पश्य लोकस्य सुस्थताम् ।
स तं जगाद विहसन्कि मूढ इव भाषसे ॥ १६८३ ॥
यो गतो गत एवासौ तत्क्षत्या नापरः क्षतः ।
• सर्वो निजसुखापेक्षी न किंचित्कोपि शोचति ॥ १६८४ ॥

१ वक्षसः इति स्यात् ।