पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

मुक्तमालम्ब्य नृपतिस्तमालम्ब्य प्रयागकः
यान्ति स्म विद्युद्द्योतेन क्ष्मां पश्यन्तोन्तरान्तरा ॥ १६३९ ॥
निरुष्णीषोङ्गसंस्यूतकृतवासाः स्खलन्नृपः ।
स तां प्रयागमुक्ताभ्यां कथंचित्प्रापितः कुटीम् ॥ १६४० ॥
तदा कुमत्रिनिष्कृष्टं स व्यापद्वारणक्षमम् ।
शोचन्सस्मार कंदर्प रुद्रं दैत्यमिवोत्पलः ॥ १६४१ ॥
प्राकारमूर्ध्ना मुक्तेन प्रविष्टेन हृतार्गलाम् ।
नृपः कुटीप्राङ्गणोर्वी विवेशास्थिततापसाम् ॥ १६४२ ॥
विशतोइमक्षतः पादस्तस्यासृग्दक्षिणोत्यजत् ।
मेने तेनानिमित्तेन स मृत्युं समुपस्थितम् ॥ १६४३ ॥
कुट्यामर्गलरुद्धायां निषण्णस्याङ्गने ययौ ।
रात्रिर्भीतिमतो भीमा तस्य घोराभ्रमालिनी ॥ १६४४ ॥
पङ्कोपलिप्तः पङ्काङ्कस्थण्डिलस्यो निनाय ताम् ।
दासकम्बलिकाच्छन्नगात्रो वृष्टयुत्तरां निशाम् ॥ १६४५ ॥
विसस्मारान्तरा दुःखमासीनप्रचलायितैः ।
३७७
निर्निद्रस्त्वभवच्छ्भ्राछ्रश्यन्निव समाकुलः ॥ १६४६ ॥
कोहं केनाभिभूतोद्य क्व वर्ते कोनुगोधुना ।
किं कृत्यमिति निर्ध्याय मुहुर्मुहुरकम्पत ॥ १६४७ ॥
हृतं राज्यं प्रिया दग्धा भ्रष्टः सूनुरबान्धवः ।
जातोस्म्येकाक्यपाथेयो लुठन्भिक्षाभुजोङ्गने ॥ १६४८ ॥
इत्येकैकं च निर्ध्याय दुःखं नैक्षिष्ट सोपरम् ।
प्राप्तावसानं शोचन्तमात्मतुल्यं कथास्वपि ॥ १६४९ ॥
युग्मम् ॥
भोजस्तु वाजिभिद्वित्रैरवशिष्टैः समं व्रजन् ।
हस्तिकर्णान्तरं प्राप निर्गत्य नगरान्तरात् ॥ १६५० ॥

४८