पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
प्रथमस्तरङ्ग्ः ।


त्वयाप्यस्मद्वितार्थाय निसर्गसरलात्मना ।
ईषत्प्रयासः कल्याणिक्रियतां यदि शक्यते ॥ २३२ ॥
योयं तरुतले मुण्डश्चूडालो दृश्यते व्रती ।
अमुना सस्यपालेन कांदिशीकाः कृता वयम्‌ ॥ २३३ ॥
अभुक्ते मात्त्रिकैरन्ने नवे नागैर्न भुज्यते ।
अयं नात्ति च तत्तेन समयेन हता वयम्‌ ॥ २३४ ॥
क्षेत्रणि रक्षत्येतस्मिन्दृष्ट्वापि फ़लसमंपदम् ।
भोक्तुः नैव समर्थाः स्मः प्रेता इव सरिज्रलम्‌ ॥ २३५ ॥
तथा कुरु यथा भ्रश्येत्समयादेष नैष्ठिकः ।
योग्यां प्रतिक्रियां विद्मो वयमप्युपकर्तृषु ॥ २३६ ॥
स तथेति ततो नागमुक्त्वा यत्नपरो द्विजः ।
अचिन्तयद्दिदिवारारत्रौ सस्यपालस्य वञ्चनाम्‌ ॥ २३७ ॥
गूढं तस्य बहिःक्षेत्रकुटिगर्हभकृतस्थितेः ।
पच्यमानान्नभाण्डान्तर्नवान्नान्यक्षिपत्ततः ॥ २२३८ ॥
भुञ्ञान एव तत्तस्मिन्क्षणादेव जहार सः ।
अहीन्द्रः करकासारवर्षी स्फीतां फलश्रियम् ॥ २३९ ॥
तं च व्युत्कान्तदारिद्द्रःसरसोभ्यर्णमागतम्‌ ।
कृतोपकारमन्येद्युर्निजोर्वीमनयद्धिजम्‌ ॥ २४० ॥
स तत्र पितुरादेशात्कन्याभ्यां विहितार्हणः।
अमर्त्यसुलभैर्भौगैरतोष्यत दिने दिने॥ २४१ ॥
कालेन सर्वानामरत्र्य स्वां भुवं गन्तुमुद्यतः ।
प्रतिश्वुतवरं नागं चन्द्रलेखामयाचत ॥ २४२ ।।
संबन्धायोग्यमपि तं कृतज्ञत्ववशंदः ।
संविभेजे स भुजगः कन्यया च धनेन च ॥ २४३ ॥