पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सा

सप्तमस्तरङ्गः ।

तदात्मजाः कृता नानभोगनन्दिमुखात्रयः ।
अधीशाः पृतनाङ्गस्य राज्ञा तुङ्गोपजीविनः ॥ ११६ ॥
हास्यं बभूव भूभर्तुस्तेषां तुङ्गपदार्पणम् ।
बन्धनं यवकाण्डीनां हेमस्थाने शिशोरिव ॥ ११७ ॥
ते तुरुष्काहवे राज्ञा तुङ्गवत्प्रहिताः पुनः ।
प्रत्यावृत्त्य ययुर्देशं निजमेव पलायिताः ॥ ११८ ॥
इत्थं मत्रिष्वयोग्येषु क्षान्तिशीले च भूपतौ ।
केचिदुद्रेकमभजन्दरद्दिबिरडामराः ॥ ११९ ॥
सा लोठिकामठं कृत्वा लोठिका नृपतेः सुता ।
तिलोत्तमाया विदधे मातुर्नाम्ना परं मठम् ॥ १२० ॥
पापिनामपि हन्तेयं कापि सत्कर्मवासना 1
भद्रेश्वरोप यश्चक्रे विहारं सुकृतोज्ज्वलम् ॥ १२१ ॥
सत्यं विवेक्ता संग्रामराजो यो न्यायतोर्जितम् ।
निजं ब्रुवाणो द्रविणं प्रपामपि न निर्ममे ॥ १२२ ॥
श्रीलेखा पार्थिववधूः श्रीयशोमङ्गलात्मजा ।
पत्यौ शिथिलसामर्थ्य स्वैरिणीत्वमसेवत ॥ १२३ ॥
सुतः सुगन्धिसीहस्य जयलक्ष्म्यां बभूव यः |
वल्लभो निर्भरं देव्याः सोस्यास्त्रिभुवनोभवत् ॥ १२४ ॥
स जयाकरगञ्जादिगञ्जस्रष्टातितीक्ष्णधीः ।
कोशोपकारकृत्तस्या जारोप्यासीजयाकरः ॥ १२५ ॥
मयग्रामीणगञ्जदिकर्त्री संचयतत्परा |
२४३
साभूगर्तुः प्रसादेन सुभगा भूरिवैभवा ॥ १२६ ॥
स चतुर्थसमाषाढप्रारम्भाहे महीपतिः ।
हरिराजाभिधं पुत्रमभिषिच्यास्तमाययौ ॥ १२७ ॥

१ यच्चक्रे इत्युचितः पाठः ।