पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ राजतरङ्गिणी

इति यो यो हि वृत्तान्तस्तस्य नाशाय शङ्कितः ।
स स दैवानुकूल्येन प्रत्युतोद्वेचकोभवत् ॥ ३५ ॥
कालक्रमत्रुटितसंश्रयभूः स्वमूल-
मात्राश्रयी तटतरुः सरितोम्बुपूरैः ।
यैः शङ्कयते निपततीति वितीर्णमृद्भि-
स्तैरेव तस्य हि भवेत्स्थितिभूमिदार्ढ्यम् ॥ ३६॥
नीत्युज्वलं व्यवहरन्प्रजाराधनतत्परः ।
प्राक्पुण्यसंक्षयात्तुङ्गः शनैस्त्वासीत्स्खलन्मतिः ॥ ३७ ॥
यत्स्वभाग्यापहाराय हीनजन्मानमाददे |
साहायकाय कायस्थं क्षुद्रं भद्रेश्वराभिधम् ॥ ३८ ॥
ड्डिवाणिज्यं सौनिकत्वं काष्ठविक्रयितादि च ।
आरामिकस्य यस्यासीत्कृत्यं वंशक्रमोचितम् ॥ ३९ ॥
कम्बलोद्धृष्टपृष्ठोथ भोजनार्थमवालगत् ।
भस्त्रामषीभाण्डवाही यश्च पश्चान्नियोगिनाम् ॥ ४० ॥
अनन्तराजकार्यादिचिन्ताश्रान्तो विधाय तम् ।
तुङ्गः सहायं नावुद्ध संसर्गाद्भाग्यसंक्षयम् ॥ ४१ ॥
धार्मिकं तेन धर्मात्कं विनिवार्यार्यचेतसम् ।
गृहकृत्याधिकारे स दुष्कृती विनिवेशितः ॥ ४२ ॥
देवगोब्राह्मणानाथातिथिराजोपजीविनाम् ।
अकालमृत्युर्विदधे वृत्तिच्छेदं स दुर्मतिः ॥ ४३ ॥
शवाजीवोपि पुष्णाति क्रूरः कापालिको निजान् ।
भद्रेश्वरस्तु पापोभून्निजानामपि जीवहृत् ॥ ४४ ॥
तुङ्गेन चैत्रे सर्वत्र कृते भद्रेश्वरे प्रभौ ।
सुगन्धिसीहः प्रययावाषाढे मासि संक्षयम् ॥ ४५ ॥

१ धर्माख्यं इति पाठ: स्यात् ।