पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left|center=

प्रथमस्तरङ्गः । १५

दायादादिबलैनर्ष्टा द्रुष्टा भूयः समुत्थिता । श्रीर्विप्रावज्ञया राज्ञामपुनःसंभंवा पुनः ॥ १६१९ ॥ श्राद्धार्थमुत्थितः स्नातुं द्विजैः कैश्चिद्धुभुक्षितैः । प्राक्स्नानाद्भोजनं राजा स कदाचिदयाच्यत ॥ १६२ ॥ यियासुना वितस्तान्तर्यदा तेनावधीरितम्‌ । तदा प्रभावात्ते तस्य तां धुनीमय्रतो व्यधुः १६३॥ सेयं वितस्ता स्पृषटैनां भोजयास्मान्स तैरिति । उक्तोपि मायाविहितामज्ञासीत्सरिदाह्रुतिम्‌ ॥ १६४॥ भोज्यं ददामि नास्नातो विप्राः सर्पत सांम्प्रतम्‌ । तेनेत्युक्तास्तमंशपंस्ततः सर्पो भवेति ते ॥ १६५ ॥ अशेषमेकेनैवाहा श्रुत्वा रामायणं तव ।

शापस्य शान्तिर्भवितेत्यूचिरे च प्रसादिताः १६६ ्॥ स दामोदरसूदान्तद्वधार्वन्दूरमुदन्यया । शापोष्णश्वासधूमेन जनैरद्यापि लक्ष्यते ॥ १६७ ॥ अथाभवन्स्वनामाङ्कपुरजयविधायिनः । हष्कजुष्ककनिष्कास्त्र्यास्त्रयस्तत्रैव पार्थिवाः ॥ १६८ ॥ सविहारस्य निर्माता जष्को जुष्कपुरस्य यः । जयस्वामिपुरस्यापि शुद्धधीः संविधायकः ॥ १६९ ॥ ते तुरूष्कान्वयोद्भुता अपि पुण्याश्रया न्रुपाः । शुष्कलात्रादिदेरोषु मठचैत्यादि चक्रिरे ॥ १७० ॥ प्राज्ये राज्यक्षणे तेषां प्रायः कश्मीरमण्डलम्‌ । भोज्यमास्ते स्म बौद्धानां प्रव्रज्योर्जिततेसाम्जिततेजसाम्‌ ॥ १७१ ॥ तदा भगवतः शाक्यसिंहस्य परनिर्व्रुतेः ।

अस्मिन्मदीरोकधातौ सार्घे वर्षशतं ह्यगात्‌ ॥ १७२ ॥