पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङिगणी

कैश्चित्क्षितिभुजा वैरमङ्गीकृत्यापि तत्क्षणम्‌ ।
यैर्नाशि श्वपचोच्छिष्टं तेभूवन्सोमपैः समाः ॥ ३९३ ॥
मण्डलेस्मिन्प्रभावोग्रा न देवा न्यवसन्ध्रुवम् ।
तद्वेश्मानि तदा नो चेच्छ्वपाकी प्राविशत्कथम्‌ ॥ २९४ ॥
तां रणस्वामिनं द्र्ष्टुं तिलद्धादश्यहे गताम्‌ ।
सामन्तेभ्यः साभिमाना नान्वयुर्डामराः परम्‌ ॥ ३९५ ॥
राजकौटुम्ब्यदृप्तानां डोम्बानां निर्गता मुखात्‌ ।
राज्ञामिवाज्ञा दुर्लङ्घया न केनाप्युदलङ्घयत ॥ ३९६ ॥
राज्ञा प्रदत्ते रङ्गाय हेलु्ग्रामेग्रहारवत् ।
लिलेख पट्टोपाध्यायो न यदा दानपट्टकम् ॥ २३९७ ॥
तदाक्षपटलं गत्वा रङ्गः कोपात्तमव्रवीत्।
रङ्गस्स हेलु दिण्णेति दासीसुत न लिख्यते ॥ ३९८ ॥
                                  युग्मम्‌ ॥
लिलेख सोथ संत्रासाद्रङ्गभ्रूभङ्गतर्जितः।
को न राजनि दु्र्वृत्ते भवेन्नीतिव्यतिक्रमः ॥ ३९९ ॥
अन्त्यागमनपापस्य पापः पृच्छन्स निष्कृतिम्‌ ।
विटैर्हास्यावहान्येव प्रायश्चित्तानि कारितः ॥ ४०० ॥
हिमेनैव हिमं शाम्येद्दुष्कृतेनैव दुष्कृतम् ।
सोनुशिष्टो विटैरेवं दधत्पामरसारताम्‌ ॥ ४०१ ॥
पवित्रास्पर्शतोस्पृश्यास्पर्शपापं जिहीर्षुणा ।
तेनादुष्यत विप्रस्य योषिन्मासोपवासिनः ॥ ४०२ ॥
ततोपि पापिनोभूवन्केपि तस्मिन्क्षणे द्विजाः ।
तस्मादप्यग्रहारान्ये जगृहुर्गृहभोजिनः ॥ ४०२ ॥
चक्रे चक्रमठः सोपि पापः पाशुपताश्रयम् |
तस्मिन्हतेर्धनिष्पन्नं तद्धधूर्यमयोजयत्‌ ॥ ७०४ ॥