पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
पन्चमस्तरङ्गः

वेश्यानुरागस्य महेन्द्रचाप-
धाम्नो हरिद्रारसरञ्जनस्य ।
उपाङ्गगीतस्य च हारिणोपि
सौन्दर्यमस्थैर्यहतप्रकर्षम्।।३८२।।
दर्शनाभ्याससंवृद्धचक्षूरागः क्षमापतिः
विना श्वपाककन्ये ते न पुनः प्राप निर्वृतिम्॥ ३८३ ॥
गायन्त्यौ शयनोपान्ते शनैर्विहितचुम्वनम्
नृपं रतिसुखाभिज्ञं तं हठात्ते प्रचक्रतुः ॥ ३८४ ॥
समागमेन नव्येन तयोर्वैयात्यशोभिना ।
चक्रे क्षपितसामर्थ्यः स लज्जोद्वहनाक्षमः ॥ ३८५ ॥
रत्यन्तसुलभोद्भेदैर्निःसृतैः स्वेदबिन्दुभिः ।
भाग्योष्मसंक्षयजडं वपुस्तस्य व्यधीयत ॥ ३८६ ॥
रागान्धेन कृता हंसी महादेवी महीभुजा ।
भेजे राजवधूमध्ये वालव्यजनवीजनम् ॥ ३८७ ॥
तस्या यैर्भुक्तमुच्छिष्टं ते यथा चक्रवर्मणः ।
नृपान्तराणामन्येषामप्यभुवन्सभासदः ॥ ३८८ ॥
मन्रिणामक्षपटलप्रख्यमुख्याधिकारदा ।
प्रवृद्धिहेतुतां प्राप डोम्बसेवनचक्रिका ॥ ३८९
मौर्ख्यात्सचिवतां केचिच्छ्वपाका न व्यधुः स्वयम्‌ ।
केचित्त्वकुर्वन्नीतिज्ञा राजकार्याणि मन्त्रिवत् ॥ ३९० ॥
मन्त्रिणस्तस्करा राज्ञीश्वपाकी श्लोकाः प्रियाः।
किं न लोकोत्तरमभूद्भूपतेश्चक्रवर्मणः।।३९१।।
ऋतुस्नातार्तवाङ्कानि श्वपाकी स्वांशुकान्यदात्।
तदाच्छादनदृप्तेच्छा मन्त्रिणः प्राविशन्सभाम्।।३९२।।