पञ्चमस्तरङ्गः ।
तयोविलासवलितैश्चलितापाङ्गविभ्रमैः ।
द्वितीयपुष्पप्रकरो व्यकीर्यत सभान्तरे ॥ ३६१ ॥
गायनैर्जयजीवेति कृतकोलाहलैरभूत् ।
सदः सशब्दं कुर्वद्भिस्तत्तन्नूपगुणग्रहम् ॥ ३६२ ॥
भुक्तोत्तरोचितोदञ्चत्पञ्चमस्थानचारिणः ।
वंशै रागविशेषस्य दत्ते स्थाने ततः शनैः ॥ ३६३ ॥
अविक्रियशिरःकम्पभ्रूनेत्रभ्रमशोभितः ।
अभिन्न इव गायन्त्योर्गीतध्वनिरजृम्भत ॥ ३६४ ॥
युग्मम् ॥
अथ ताम्बूलरोमन्थत्यागनिश्चलमूर्त्तिना ।
जातं राजकुरङ्गेण प्रमोदास्पन्ददृष्टिना ॥ ३६५ ॥
गायन्त्यौ भावमालक्ष्य तस्य स्निग्धमगायताम् ।
अधिकोद्रेचिताभिख्यं विलासस्मितविभ्रमैः ॥ ३६६ ॥
राशस्तयोश्च संसक्तचित्तयोरितरेतरम् ।
दृग्व्यापारैः स्वसंवेद्यैः संलाप इव पप्रथे ॥ ३६७ ॥
नृपं हारितचित्तं तं विज्ञायैकः प्रियो विटः ।
ततः प्रसङ्गे प्रोवाच प्रीतिवृद्धिकरं वचः ॥ ३६८ ॥
देव गीतमिदं यातं संप्राप्यैते मनोरमे ।
कर्पूरपारीपतितं मैरेयमित्र हारिताम् ॥ ३६९ ॥
गायन्त्योर्मार्जितामेतां रागाद्दन्तचतुष्किकाम् ।
अनयोः प्रतिमाव्याजाचुम्बतीव निशाकरः ॥ ३७० ॥
करन्यस्तकपोलान्तमुद्गायन्त्याविमे ध्रुवम् ।
कटाक्षैः कुरुतो व्योनि वैमानिकविमोहनम् ॥ ३७१ ॥
जानत्या स्वाश्रयां चर्चामनयोरेकयावयोः ।
असूयास्मितगर्भोयं कटाक्षः पश्य पातितः ॥ ३७२ ॥