सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
राजतरङ्गिणी


अवन्तिस्वामिनं तत्र प्राग्राज्याधिगमात्कृती ।
विधाय प्राप्तसाम्राज्यश्चक्रेवन्तीश्वरं तदा ॥ ४५ ॥
त्रिपुरेभ्वरभूतेशविजयेशेषु भूश्रता ।
स्नानद्रोण्या रौप्यमय्या तेन पीठत्रयं कृतम्‌ ॥ ४६ ॥
शूरस्यापि नरेन्द्रं तं ध्यायतः स्वाधिदैवतम्‌ ।
तत्प्रियार्थमुपेक्ष्योभूद्धर्मः प्राणाः खुतोपि वा ॥ ४७॥
तथा चार्चयितुं जातु यातो भूतेश्वरं नृपः
विभवानुगुणे स्वस्मिन्पूजोपकरणोर्पिते ॥ ४८ ॥
ददर्श पीठे देवस्य पूजकैरूपपादितम्‌ ।
वन्यमुत्पलशाकाख्यं तिक्तशाकमवस्थितम्‌ ॥ ४९. ॥
युग्मम्‌ ॥
तत्रस्थाः क्ष्माभुजा पृष्टास्तन्निवेदनकारणम्‌ ।
व्यजिज्ञपन्क्षितिन्यस्तजानु प्राञ्जलयस्ततः ॥ ५० ॥
डामरो धन्वनामास्ति लहरे विषये बली ।
शूरस्य मन्त्रिणो देव सेवको यः सुतोपमः ॥ ५१ ॥
हतेषु तेन ग्रामेषु निरवग्रहशक्तिना ।
निवेद्यमेतदेवास्मै भूतेशाय निवेद्यते ॥ ५२ ॥
अकाण्डशूलजनितां पार्थिवः कथयन्व्यथाम्‌ ।
श्रुतमश्रुतवत्कृत्वा व्यक्तपूजोथ निर्ययौ । ५२ ॥
पूजां संत्यज्य गमनं शूलं चाकस्मिकं प्रभोः ।
सहेतुकं विदञ्शूरो वृत्तान्तान्वेषकोभवत्‌ ॥ ५९ ॥
ज्ञाततत्वस्ततस्तूर्णं भूतेशाभ्यर्णवर्तिनः
कुद्धः समातृचक्रस्य भैरवस्याविशद्गृहम्॥ ५५ ॥
निषिद्धजनवाहल्याद्भूत्वा विरलपार्श्वगः ।
प्राहिणोद्धन्वमानेतुं ततो दूतान्पुनः पुनः ॥ ५६ ॥