पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

आस्तां वालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये ।
एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः परा ॥ ७७ ॥
तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमत्रिणः ।
पार्श्वगेभ्यो ददुवित्तमनिमित्तस्मितेष्वपि ॥ ७८ ॥
अवुवाननुतिष्ठन्तस्तस्याव्यक्तं शिशोर्वचः ।
कृतागसमिवात्मानममन्यन्ताधिकारिणः ॥ ७९ ॥
पितुः सिंहासनं तेन कामता वालभूभुजा |
नोत्कण्ठा पादपीठस्य लम्वमानाङ्गिणा हता ॥ ८० ॥
तं चामरमरुल्लोलकाकपक्षं नृपासने |
विधाय मन्त्रिणोटण्वन्प्रजानां धर्मसंशयम् ॥ ८१ ।।
इति काश्मीरिको राजा वर्तमानः स शैशवे ।
साहायकाय समरे न निन्ये कुरुपाण्डवैः ॥ ८२ ॥
आम्नायभङ्गान्निर्नटनामकृत्यास्ततः परम् ।
पञ्चत्रिंशन्महीपाला मना विस्मृतिसागरे ॥ ८३ ॥
अथाभवल्लवो नाम भूपालो भूमिभूषणम् ।
वेल्लद्यशोदुगूलायाः प्रीतिपात्रं जयश्रियः ॥ ८४ ॥
यस्य सेनानिनादेन जगदौन्निद्यदायिना |
निन्थिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ ८५ ॥
तेन षोडशभिर्लक्षैविहीनामश्मवेश्मनाम् ।
कोटिं निष्पाद्य नगरं लोलोरं निरमीयत ॥ ८६ ॥
दत्त्वाग्रहारं लेदर्या लेवारं द्विजपर्षदे ।
स ग्रामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ ८७॥
कुशेशयाक्षस्तत्पुत्रः प्रतापकुशलः कुशः ।
कुरुहाराग्रहारस्य दाताभूत्तदनन्तरम् ॥ ८८ ॥