पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
145
चतुर्थस्तरङ्गः


आरोढुरूबन्धाय स्वोर्वौरुष्णीषपट्टिका ।
बद्धा मया तां प्रविश्य क्षिप्रमेव पताम्भसि ॥ ५७६ ॥
नखनिर्भिन्नगात्रास्रलिखितामिति संविदम्‌ ।
दृष्ट्वा चावाचयत्कण्ठनिबद्धांशुकपल्लवे ॥ ५७७ ॥
तिलकम्‌ ॥
विस्मयस्नेहयोः पश्चात्पूवै स सरितस्ततः ।
प्रवाहे पतितो राजा परं पारं समासदत्‌ ॥ ५७८ ॥
ग्राप्तसैन्यः प्रविश्याथ क्षणेनैव निनाय सः ।
तमशेषं सभूपालं नेपालविषयं क्षयम्‌ ॥ ५७९ ॥
रक्षिणोपि न यावत्तमजानन्बन्धनाच्च्युतम् ।
तावदेव कथाशेषं विषयं तं चकार सः ॥ ५८० ॥
नृत्यत्कवन्धः स्वर्गस्त्रीमुक्तस्त्रक्तूर्यघोषवान् 1
भूपतेर्बन्धनान्मोक्षे बभूव समरोत्सवः ॥ ५८१ ॥
दावानलोल्बणभुवो गिरयो निदाघे
यत्रैव दूरमितरे परिवर्जनीयाः ।
तत्रैव संभवति सान्द्रहिमद्रवाद्र॑-
श्चित्रं तुषारशिखरी नितरां निषेव्यः ॥ ५८२ ॥
जज्जादीनां क्षणे यत्र जन्म स्वामिदृहामभूत् ।
तत्रैव मन्त्रिणश्चित्रं कृतिनो देवशर्मणः ॥ ५८३ ॥
नाभूद्विसदृशः सूनुः स पितुर्मितन्त्रशर्मणः ।
तमोमयो भास्वरस्य भानोरिव शनैश्चरः ॥ ९८४ ॥
रक्षारत्नोपमे तस्मिन्सचिवेस्तमुपागते ।
प्राप्रामपि श्रियं मेने नृपतिहरितामिव ॥ ५८५ ॥
तस्य दिग्विजयस्यान्ते मानम्लानिर्विनिर्ययौ ।
मानसात्पृथिवीभर्तुर्नामात्योपक्रिया पुनः ॥ ५८६ ॥
१९