पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
राजतरङ्गिणी


पूर्वैर्बध्दं कथावस्तु मयि भूयो निवघ्नति ।
प्रयोजनमनाकर्ण वैमुख्यं नोचितं सताम्‌ ॥ ८ ॥
दृष्टं दृष्टं नृपोदन्तं वध्द्वा प्रमयमीयुषाम्‌ ।
अर्कवाकालभवैर्वार्ता यत्प्रबन्धेषु पूर्यते ॥ ९ ॥
दक्षं कियदिदं तस्मादस्मिन्भूताथवर्णने ।
सर्वप्रकारं स्खलिते योजनाय ममोद्यमः॥ १० ॥
युगलकम्‌ ॥
विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै संक्षिपतो वचः ।‌
सुव्रतस्य प्रवन्धेन च्छिन्ना राजकथाश्रयाः ॥ ११ ॥
या प्रथामगमन्नैति सापि वाच्यप्रकाशाने ।
पाटवं दु्ष्टवैदुष्यतीव्रा सुव्रतभारती ॥ १२ ॥
केनाप्यनवधानेन कविकर्मणि सत्यपि !
अंशोपि नास्ति निर्दोषः क्षेमेन्द्रस्य नृपावलौ ॥ १३ ॥
दृग्गोचरं पूर्वसूरिग्रन्था राजकथाश्रयाः ।
 मम त्वेकादश गता मतं नीलमुनेरपि ॥ १४ ॥
दृष्टैश्च पूर्वभूभर्तृप्रतिष्ठावस्तुसशासनैः ।
प्रशस्तिपट्टैः शास्त्रैश्च शान्तोशेपभ्रमक्लमः ॥ १५ ॥
द्वापञ्चाशतमान्मायभ्रंशाद्यान्नास्मरन्नृपान्।
तेभ्यो नीलमतदृष्टं गोनन्दादिचतुष्टयम्‌ ॥ १६ ॥
वद्धा द्वादशभिर्ग्रन्थसहस्रै पार्थिवावलिः ।
प्राङ्भहाव्रतिना येन हेलाराजद्विजन्मना ॥ १७ ॥
तन्मतं पद्ममिहरो दृष्ट्वाशोकादिपूर्वगान् ।
अष्टौ लवदिन्नृपतीन्स्वस्मिङ्रन्थे न्यदर्शयत्॥ १८ ॥
युगलकम् ॥।