पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
राजतरङ्गिणी

स्वैरिणीसंगमो भोगा युवानोग्रे पितुर्गृहम् ।
पत्युर्मृदुत्वमित्यस्याः किं नाभूच्छीलविघ्नकृत् ॥ ४९६ ॥
सा नित्यदर्शनाभ्यासच्छनकैर्विशता मनः।
अनङ्गलेखा खङ्खेन संप्रयुज्यत मन्त्रिणा ॥ ४९७ ॥
छन्नप्रेमसुखाभ्यासनपृह्नीभीतिसंभ्रमा । ५
धार्ष्ट्यं दिनाद्दिनं यान्ती ततस्तन्मयतां ययौ ॥ ४९८ ॥ ४,
स मन्त्री दानमानाभ्यां वशीकृतपरिच्छदः ।
अन्तःपुरे यथाकामं विजहार तया सह ॥ ४९९ ॥
उपलेभे च शनकैस्तस्यास्तं शीलविप्लवम् ।
विरागलिङ्गैरोरुद्यद्भिर्धीमान्दुर्लभवर्धनः ॥ ५०० ॥
सखीमध्ये रहः स्मेरा विवर्णा भर्तृदर्शने ।
अकाण्ड एव प्रोत्थाय पश्यन्ती सत्मितं पथः ॥ ५०१ ॥
पत्युः कोपे कृतावज्ञा भूनेत्रचिवुकाञ्चनैः।
तदप्रियं भाषमाणे सस्मितं न्यस्तलोचना ॥ ५०२ ॥
तत्तुल्यगुणनिरोविण्णा तद्विपक्षस्तुतौ रता ।
रिरंसां तस्य संलक्ष्य सखीभिर्बद्धसंकथा ॥ ५०३ ॥
तच्चुम्बने भुग्नकण्ठी तदाश्लेषासहाङ्गका ।
तत्संभोगे त्यत्त्कहर्षा तत्तल्पे व्याजनिद्रिता ॥ ५०४ ॥
भवेद्धि प्रायशो योषित्प्रेमविक्रीतचेतना ।
निवेदयन्ती दौःशील्यपिशाचावेशवैकृतम्‌ ॥ ५०५ ॥ ५
कुलकम्‌ ॥
निगूढदारदौरात्म्यचिन्ताकृशवपुस्ततः ।
शुद्धान्तमविशज्जातु निशि दुर्लभवर्धनः ॥ ५०६ ॥
सोपरश्यत्सुरतक्लान्तिसुलभस्वापनिःसहाम् ।
दुर्जारभर्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्‌ ॥ ५०७ ॥