पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३००

राजतरङ्गिणी अष्टमस्तरङ्गः ।
भ्रातुः पुत्रस्य दिद्दाया जस्सराजस्य नतृतः ।
मल्लाभिधानादुद्भूतो भूपतामुञ्चलोभजत् ॥ ३७॥
द्रोहेण तं हृतवतां भृत्यानामग्रतस्ततः ।
शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ ३८ ॥
गग्गेन निहते तस्मिन्मल्लो द्वैमातुरोप्यभूत् ।
तस्योच्चलमहीभर्तुर्भ्राता निर्बंध्य तं बली ॥ ३९ ॥
सुस्सलाख्योग्रहीद्राज्यं माल्लिरुञ्चलसोदरः ।
विरक्तैः पाटिते तस्मिन्राज्यात्यैर्नृपः कृतः ॥ ४० ॥
षण्मासान्हर्षभूभर्तृनता भिक्षाचराभिधः ।
पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ ४१ ॥
क्रमाल्लवन्यैर्विश्वस्तैर्वैराज्योद्वेजिते हते ।
लवन्यानिखिलांस्तं च हत्वा भिक्षाचरं नृपम् ॥ ४२ ॥
सुतः सुस्सलभूभर्तुः संप्रत्यप्रतिमक्षमः ।
नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ ४३ ॥
गोदावरी सरिदिवोत्तमुलैस्तरङ्गै-
र्वक्रैः स्फुटं सपदि सप्तभिरापतन्ती ।
श्रीकान्तराजविपुलाभिजनाब्धिमध्यं
विश्रान्तये विशति राजतरङ्गिणीयम् ॥ ४४ ॥