पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५९
रसगङ्गाधरः ।

एवं क्रियापरम्पराया विदग्धचेष्टितस्य तदस्फुटत्वस्यं तदुपपादकयुक्तेश्च सामानाधिकरण्यरूपः संसर्गः श्लेषः ।

यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः ।

यथा 'कमलानुकारि वदनं किल तस्याः' इत्यादि । प्रत्युदाहरणं तु 'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि ।

प्रक्रमाभङ्गेनार्थघटनात्मकमवैषम्य समता ।

यथा-
'हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत् ।
हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे ॥'

अत्र विष्णुर्भ्रातेत्यादिनिर्माणे मक्रमभङ्गात्मकं वैषम्यम् ।

एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्यम् ।

यथा-
विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैर​लमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती ॥'


इत्यर्थः । तस्य माधुर्यस्य । पृथक्पदत्वस्य तत्र निविष्टत्वेन तदभावादिति भावः । सोऽपि माधुर्यप्ररोहोऽपि । तथा च सांकर्यमिति भावः । एवं शब्दगुणानां प्रपञ्चमुक्त्वार्थगुणानां तमाह-एवमिति । उक्तवदित्यर्थः । विदग्धचेष्टितस्येति । यथा 'दृष्ट्वैकासनसंस्थिते प्रियतमे' इत्याद्यमरुपद्यादौ । अत्रैकामतिक्रम्यान्याचुम्बनं विदग्धचेष्टितम् । तस्यास्फुटत्वमन्यया तदज्ञानात् । तत्रोपपत्तिश्च नयनपिधानपूर्वकं क्रीडानुबन्धः । एषां च पश्चादागमननयनपिधानक्रीडाकरणादिक्रियापरम्परया सामानाधिकरण्यं काव्ये निबद्धम् । इदं च 'क्रियापरम्परया' इति तृतीयान्तपाठे बोध्यम् । षष्ठ्यन्तपाठे तु तस्य तेषां च सामेत्याद्यर्थः । यावदिति । अर्थान्यूनाधिकपदवत्त्वेत्यर्थः । प्रत्युदाहरणे कान्तीत्यधिकम् । प्रक्रमेति । उपक्रमाभङ्गेनेत्यर्थः । शाब्दबोधे शब्दस्यापि प्रकारतया भानस्य 'न सोऽस्ति' इत्यादिना हरिणा प्रतिपादितत्वादिति भावः । भङ्ग्यन्तरेण रीत्यन्तरेण । विधत्तामिति । देवी प्रति भक्तोक्तिः । कामानां मनोरथानां सवित्री निष्पादिका । एषोऽर्थ इत्यस्यैक एवेति शेषः । अन्यथा तथैव प्रत्येकमुक्तौ ।