अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधाना- दिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथानवीकृतत्वापत्तेः ।
अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ।
यथा-'त्वरया याति पान्थोऽयं प्रियाविरहकातरः'।
'प्रियामरणकातरः' इत्यत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात्पारुष्यम् । इदं चाश्लीलतादोषव्याप्यम् ।
वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः।
यथा-
गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकाम माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयांचक्रे ॥
अयमेवेदानींतनैः स्वभावोक्त्यलंकार इति व्यपदिश्यते ।
'चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये' इत्यादिग्राम्यार्थपरिहार उदारता।
एकस्य पदार्थस्य बहुभिः पदैरभिधानं बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैर्बहुवाक्यार्थस्यैकवाक्येनाभिधानं विशेषणानां साभिप्रायत्वं चेति पञ्चविधमोजः ।
यदाहुः---
‘पदार्थे वाक्यरचना वाक्याथै च पदाभिधाः ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥' इति ।
पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारमोज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम् ।
अनवीति । दोषोऽयम् । अकाण्डेऽनवसरे । मार्गे विवक्षितदेशप्राप्तेरुद्देश्यत्वे नावसर इति शोकस्यानवसरः । प्रत्युदाहरणमाह-प्रियेति । ननु शोकदायित्वरूपं पारुष्यं न दोषेषु गणितमत आह-इदं चेति । तदन्तःपात्यमङ्गलरूपत्वादिति भावः । रूपं स्वरूपम् । कमलाक्षीति स्वरूपम् । रदेत्यादि क्रिया । अयमेव अर्थव्यक्त्याख्यगुण एव । उक्तक्रमेणैवाह-पदार्थ इति । व्यासेति । तथेत्यादिनोक्तौ । अस्य विशेषणस्य । प्रौढिपदार्थमाह-प्रतीति । क्रमेणोदाहरणान्याह-यथेत्यादिना । इत्याद्यग्रेऽपीति ।