पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५२
काव्यमाला।

कामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश्च । तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोगरूपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम् । क्रोधस्य च लोकभस्मीकरणपटोर्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्विवादिव्येषु । आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः । न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति चाच्यम् । यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस्तत्रैव साधारणीकरणस्य कल्पनात् । अन्यथा स्वमातृविषयकस्व​पितृरतिवर्णनेऽपि सहृदयस्य रसोद्बोधापत्तेः । जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसंमतोऽयं समयो मदोन्मत्तमतङ्ग​जैरिव भिन्न इति न तन्निदर्शनेनेदानींतनेन तथा वर्णयितुं सांप्रतम् । तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न संबहुमानेन वचसा व्यवहर्तव्यम् । व्यवहर्तव्यं चापकृष्टैरुत्कृष्टेषु । तत्रापि तत्रभवन्भगवन्नित्यादिभिः संबोधनैर्मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश्चक्रवर्तिन एव न मुनिप्रभृतयः संबोध्याः।

तथा चाहुः-
'अनौचित्यादृते नान्यद्रस​भ​ङ्गस्य कारणम् ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥' इति ।


सर्वासु प्रकृतिषु । स्फुटीकृतेति । स्फुटीकृताः सकलानुभावा यस्मिन्कर्मणि यथातथेति क्रियाविशेषणमेतत् । अदिव्येषु वर्णनमनुचितमित्यस्यानुषङ्गः । साधारणीति । यथा चैतत्तथा प्राक्प्रतिपादितम् । अन्यथा सर्वत्र साधारणीकरणे । समयः संकेतः । तन्निदर्शनेन तद्दृष्टान्तेन । मदोन्मत्तेति । दृष्टान्तोल्लेखेन भेदने उन्माद एव कारणम्, न तु युक्तिरिति सूचितम् । अत एव सांप्रतं तदनाश्रयणमिति भावः । एवं प्रकृत्यन्तानौचित्यमुक्त्वा व्यवहारानौचित्यमाह-तथेति । स्वतः स्वेन रूपेणैवेत्यर्थः । संबहिति । सम्यग्बहुमानो यत्र वचसि तेनेत्यर्थः । 'सबहु' इति पाठे तत्सहितेनेत्यर्थः । व्यवेति । तादृशेन वचसेति भावः । व्यवहर्तृनियममाह-जात्योत्तमैरिति । ब्राह्मणक्षत्रियवैश्यैरित्यर्थः । अनौचित्यं त्वित्याद्युक्तेऽर्थे संमतिमाह-तथा चाहुरिति । परोत्कृष्टा । उपनिषदिव । यथा सा ब्रह्मणः प्रतिपादिका तथायं रसस्येति भावः । तत्र विशेषमाह-