पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


५३
रसगङ्गाधरः।

यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते । रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव ।

'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वजिणः ।
वीणां संहर नारद स्तुतिकथालापैरल तुम्बुरो
सीतारल्लकभल्लभग्न​हृदयः स्वस्थो न लङ्केश्वरः ॥

इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गाराङ्गीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सद्दः समुप्पाडिअहरियकुसग्गन्थिमयाच्छमालापइवित्तिविस्संभिअबालविहवंदःकअणा बह्मणा' इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत्तथा । हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता । अनया सुधीभिरन्यदप्यूह्यम् ।

रसेषु चैतेषु निगदितेषु माधुर्यौजःप्रसादाख्यास्त्रीन्गुणानाहुः । तत्र 'शृङ्गारे संयोगाख्ये यन्माधुर्यं ततोऽतिशयितं करुणे ताभ्यां विप्रलम्भे तेभ्योऽपि शान्ते । उत्तरोत्तरमतिशयितायाश्चित्तद्भुतेर्जननात्' इति केचित् । 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे । संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते ।


यावतेति । तस्यानौचित्यस्य । अत एव पोषकस्य तस्यावार्यत्वादेव । न दोष इत्यत्रास्यान्वयः । ब्रह्मन्नितिः। रावणद्वारि समागतान्ब्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । ब​हिस्तूष्णीं स्थीयताम् । बहुभाषित्वादेव जडमतित्वम् । स्तुतीत्याद्युत्तरान्वयि । सीताया रल्लकः सीमन्तसरणिरेव भल्लो बाणस्तेन भग्नं हृदयं यस्य सः । 'शिरःसिन्दूरसरणिः स्त्रीणामारल्लकं स्मृतम्' इति हलायुधः । विप्रलम्भेति । सीताविषयेत्यादिः । उदाहरणान्तरमाह-एवमेवेति । तत्तथेत्यत्रान्वयः । अले ले इति । 'अरे रे सद्यः समुत्पाटितहरितकुशग्र​न्थिमयाक्षमालापरिवृत्तिविस्र​म्भितबालविधवान्तःकरणा ब्राह्मणाः' इत्यादि प्राकृतार्थः । तदनौचित्यं तथा न दुष्टम् । हास्यान्विति । तत्पोषकत्वादित्यर्थः । नेदं परिगणनम्, किं तूपलक्षणमित्याह-एषेति । दिग्रीतिः । अनया दिशा । निरतीति । नितरामतिशयितमित्यर्थः । तत्रापि करुणविप्रलम्भशान्तेष्वपि । तन्माधुर्यम् । नन्वेक-