पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


४५
रसगङ्गाधरः ।

शवा इहालम्बनम् । आन्त्रविदारणाद्युद्दीपनम् । आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयोऽनुभावाः । आवेगादयः संचारिणः । ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्रागुदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः, न तथा हासे जुगुप्सायां च । तत्रालम्बनस्यैव प्रतीतेः । पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत् । सत्यम् । तदाश्रयस्य द्रष्टृपुरुषविशेषस्य​ तत्राक्षेप्यत्वात् । तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्बोधे बाधकाभावात् ।

एवं च संक्षेपेण निरूपिता रसाः । एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वम्, गुणीभावे तु रसालंकारत्वम् । केचित्तु प्राधान्य एवैषां रसत्व​मन्यथालंकारत्वमेव । रसालंकार​व्यपदेशस्त्वलंकारध्वनिव्यपदेशवत् । ब्राह्मणश्रमणन्यायात् । एवमसंलक्ष्यक्रमतायामेव । अन्यथा तु वस्तुमात्रम्' इत्याहुः । एते चासंलक्ष्यक्रमव्यङ्ग्याः । सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्य सतोऽपि सूचीशतपत्रपत्रशतवेधक्रमस्येवालक्षणात् । न त्वक्रमव्यङ्ग्याः । व्यक्तेस्तद्धेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः । अथ कथमेत एव रसाः । भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवण​समये भगवद्भक्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः । न चासौ शान्तरसेऽन्तर्भावमर्हति । अनुरागस्य वैराग्यविरुद्धत्वात् । उच्यते--भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः ।


पद्यश्रोतैवाश्रयोऽत आह-पद्येति । रसस्त्वलौकिक इति भावः । तदेति । हासाश्रयस्येत्यर्थः । तत्र हासजुगुप्सयोः । तुरप्यर्थे । पद्यादिवेति । तत इति शेषः । एवं चेत्यस्य हेतुत्वादावन्वयः । एतेन रसत्वव्यवच्छेदः । प्राचोक्तिविरोधं परिहरति-रसालंकारेति । भूतपूर्वगत्येति भावः । प्रकारान्तरेणाह-एवमितितायामेवेति । रसत्वमेषामिति शेषः । अन्यथा तु संलक्ष्यक्रमतायां तु । केचिदित्यरुचिबीजं तूक्तरीत्यैवोपपत्तौ भूतपूर्वगत्याद्याश्रयणमयुक्तमिति । एते च रसाः । सहृदयेनेत्यस्यालक्षणादित्यत्रान्वयः । रसव्यक्तौ रसाभिव्यक्तौ । अक्रमेति बहुव्रीहिः । विभावादिविशेषणापत्तेरिति । हेतुहेतुमद्भावस्य क्रमनियतत्वादिति भावः । भगेति बहुव्रीहिः । अनुभूयेति । तथा चानुभवापलापः कर्तुमशक्य इति भावः । नन्वेवमपि स्थायिभावाभावान्नाधिक्यमत