पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला ।

स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः ।
भवेद्विहसितं चोपहसितं मध्यमे नरे ॥
नीचेऽपहसितं चातिहसितं परिकीर्तितम् ।
ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः ॥
अदृश्यदशनो हासो मधुरः स्मितमुच्यते ।
वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥
किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते ।
सशब्दं मधुरं कालगतं वदनरागवत् ॥
आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः ।
निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥
उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् ।
अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥
शार्ङ्ग​देवेन गदितो हासोऽपहसिताह्वयः ।
स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः ।
करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥” इति ।
भयानको यथा--
'श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन् ।
कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥'

अत्र श्येन आलम्बनम् । सवेगापतनमुद्दीपनम् । आननशोषादयोऽनुभावाः । दैन्यादयः संचारिणः ।

बीभत्सो यथा--
'नखैर्विदारितान्त्राणां शवानां पूयशोणितम् ।
आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ॥'


दिति। अनुल्बणैरवृद्धैः । दशना दन्ताः। ‘कालगतम्' इत्यपाठः। ‘कार्यगतम्' इति पाठः। वदनेति । तल्लौहित्यविशिष्टम् । जिह्मेति । व्यधिकरणपदबहुव्रीहिः । आकम्पौ कम्पमानौ स्कन्धमूर्धजौ यस्मिन् । स्थूलः कर्णकटुर्ध्वानः शब्दो यत्र । कराभ्यामुपगूढे व्याप्ते पोर्श्वे यत्र । शुष्यदाननमेव बिलं यस्य । लावकः पक्षिविशेषः । सवेगेति । वेगसहितमापतनमित्यर्थः । पूयेत्ति समाहारद्वन्द्वः । आननेत्यस्य स्वेत्यादिः । तत्र तयोः । ननु