पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। -- अथ प्रहर्षणम्- साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् । इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थलाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपेयसिद्ध्यर्थाद्यनात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थे लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि--- 'तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्याः शयितः पराङ्मुखः । किं मूच्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥' अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥' अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्यधिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः स्वकरकर्मकस्तत्कुचाधिकरणक आसङ्गः । न चात्र तृतीयभेदः शङ्कयः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथा वा- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' अत्र प्रहर्षणद्वितीयभेदः स्फुट एव । अननुरूपसंबन्धमादाय विषमालंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयिणोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणिभगवदुभ-नाच्च । निदर्शनायामुभयोरुपादानं नियतम्, अत्र तु नेति भेदः । अत एव क्व सूर्य इत्यादौ वाक्यार्थनिदर्शना वेति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे ललितालंकारप्रकरणम् ॥ प्राग्वदाह-अथेति । तत्र तयोर्मध्ये । यथासंख्येनाह-विधेति । मात्रस्यानु-