पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । ५०३ रणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेर्विषयः । दशयोरेकत्वाध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत् । एवं च पदार्थनिदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य । किं च तदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च "प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम्' प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्णयित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्' इत्यादिना ग्रन्येन भवता विवेचितम् । इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्याप्यवर्णना कथं संगच्छताम् । यदि पुनः 'अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्रः कठिनाशयेन' इति पद्यं स्यात्तदा स्यादपि तव मनोरथः । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम् । दशाशब्देन तद्दशासशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात् । अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम् 'रामो विजयते यस्य क्षणात्सामर्षवीक्षणात् । दावाग्निदग्धकान्तारलीलां लङ्कापुरी दधौ ।' इत्याजौ ललितस्यालंकारान्तरतामभ्युपगच्छतामपि मते न तस्य विषयः, किं तु निदर्शनायाः । अत एव 'उदयति विततोवरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।।' इति प्राचां निदर्शनोदाहरणमपि संगच्छते । तव तु रश्मिरज्जुनियन्त्रितपार्श्वद्वयसंलग्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधर्म्यारूढतया प्रकृतार्थानुपादानाल्ललितमेव स्यात् । प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रकरणादिना गम्यत्वे ललितम् । अन्यथा निदर्शनेति चेत् 'क्व सूर्यप्रभवः' इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव । इति रसगङ्गाधरे ललितालंकारप्रकरणम् । संभावितमपीत्यर्थः । कथं निदर्शना तर्हि निर्वासितेति । वसन्तकर्तृकत्वात्क- र्मत्वस्यावर्णनेऽपि तादृशवनदशारूपस्याप्रस्तुतस्यावर्णनात् । घटकतया तस्यापि वर्ण-