पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । ४९१ 'समुत्पत्तिः पद्मारमणपदपद्मामलनखा- न्निवासः कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासङ्गः पतितजननिस्तारणविधे- र्न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥ अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थं स्पर्धयेवापतन्तो रमणीयाः। 'पाटीरद्रुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः। श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ॥' अत्रापि त्रयोऽपि जीवननाशार्थमापतन्तोऽरमणीयाः । 'जीवितं मृत्युनालीढं संपदः श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ।।' अत्र जीवितादयः स्वाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषणमाहात्म्याच्चारमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः। रमणीयारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः । सहचरभिन्नत्वदोषापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति । 'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ।। शरीरादयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणीयानां च विषमालंकारेण च, संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्तभेदत्वापत्तेरिति वाच्यम् । 'समुत्पत्तिः पद्मारमण-' इत्यत्र, 'पाटीरद्रु- तिभटः शत्रुः शिवः । पाटीरद्रुश्चन्दनवृक्षः । हालाहलरूपं कूजितम् । भेदकं विशेषणम् । समुच्चये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुच्चयप्रकरणम् ॥