पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। तेनैवोक्तम् । न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि. यत्पृथगभिधानं तद्वक्तुस्तनुनेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गमयतीति वाच्यम् वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेनावैवक्षिकस्याप्रयोजकत्वात् । विकल्पस्यात्रासुन्दरत्वाच्च । वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुमिव' इत्यादाविवात्रापि श्लेषमूलोपमैवालंकारः । तनुर्वेति तनुरिवेत्यर्थः । 'वा स्याद्विकल्पोपमयोः' इति वाशब्दस्येवार्थकत्वाभिधानात् । न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम् । साधारणधर्मस्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिङ्गवचनभेदस्य दोषताया अभ्युपगतेः । यथा-'हंसीव धवलश्चन्द्रः सरांसीवामलं नमः' । अत्र हंसी धवला, चन्द्रो धवलः, सरांस्यमलानि, नभो ह्यमलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीतेरुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति 'सरांसीव नमः' इत्यादी लुप्तोपमायां कथं वचनभेदो दोष इति चेत्, तत्रापि प्रतीयमानसाधारणधर्मस्य वैरूप्यादेवेत्यभ्युपगमात् । न च प्रतीयमानस्य धर्मस्य स्वशब्दानालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शङ्कयम् । शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' इति । यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम् । एवं स्थिते राजते भासते इत्यादि तिङन्तप्रतिपाद्ये साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथात्रापीति । अत एव 'यस्मिन्नतिसरसो जनो जनपदाश्च' इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्लिष्टे धर्मलिङ्गसंख्याभेदादिं नैव दूषणमिति प्रतिप्रसवाच्चेति दिक् । इति रसगङ्गाधरे विकल्पप्रकरणम् । अथ समुच्चयः- युगपत्पदार्थानामन्वयः समुच्चयः । द्विषयो मानोऽहंकारः । तत् औपम्यम् । तत् अगमनम् । लुप्तोपेति । धर्मत्यादिः । दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरमर्मप्रकाशे विकल्पप्रकरणम् ॥