पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रुचिनिवृत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखान्तरसाधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम् । परस्य दुःखसाधनानवाप्तिः स्वस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा- 'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम् । स्मरस्य स्वर्बालानयनसुममालार्चितमहो वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥' परस्य सुखसाधनानिवृत्तिः स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा- 'न मिश्रयति लोचने सहसितं न संभाषते कथासु तव किं च सा विरचयत्यरालयं भ्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः स्वविषयोऽनुरागग्रहः ॥' अत्र कयाचित्प्रौढनायिकया सपत्न्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्तुदुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःखसाधननिवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यत्वेन दुःखस्यानयत्यात्पृथगुपादानम् । एवमष्टावन्येऽप्युभयभेदा ऊह्याः । केवलेष्टाप्राप्तिर्यथा- 'प्रभातसमयप्रभां प्रणयिनि हुवाना रसा- दमुष्य नयनाम्बुजं सपदि पाणिनामीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥" अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधनतयेष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यद्वा तादृशज्ञानं तस्या दुःखसाधनम्, सन्निवृत्तिरूपं चेष्टं साध्यमानमपि न त-