पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । दिदवदहनराशिः', 'चन्द्रो वाडवः', 'शंकरचूडापगा कालिन्दी' इत्यादौ त्वदभीष्टविरोधस्यासिद्धिप्रसङ्गादिति चेत्, सत्यम् । इह हि अलंकारवर्गे यो यत्र सहृदयचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवादम् । एवं च रूपके 'मुखं चन्द्रः' इत्यादौ यद्यप्यस्ति विरोधस्तथापि न स तत्र प्रतिपिपादयिषितः । अपि तु चन्द्रनिष्ठाह्लादकत्वादिसकलगुणानां मुखे प्रतिपत्त्यर्थे चन्द्राभेद एवेति स चमत्कारी, न विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकारः । विद्यमानताया अकिंचित्करत्वात् । 'कुसुमानि शराः' इत्यादौ तु विरहिण्यादीनामवस्थाया अत्यद्रुत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गर्भितोऽप्यार्थो विरोधः समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नामाभूदलंकारः, विरोधस्थले तु 'कुसुमानि शराः' इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं विवक्षणीयत्वाद्रूपकापत्तिरिति वाच्यम् । विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात् । यद्वा अभेदस्यात्र विरोधोत्थापनार्थमुपात्तस्याचमत्कारित्वाद्रूपकालंकारत्वमयुक्तम् । तत्तदलंकारलक्षणेषु अलंकारसामान्यलक्षणे वा चमत्कारित्वस्यो- क्तत्वात् । यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षितमप्यर्थश्च न गर्भीकृतः किं तु पीडाजनकत्वश्यामत्वाद्यतिशयमात्रं विवक्ष्यते तदात्र रूपकमेव । यदि वा नगरविशेषस्थितेरदुतत्वविवक्षया यत्र हि नारीणां मुखं चन्द्र इत्युच्यते तदा विरोधाभास एवेति ध्येयम् । ननु 'सुप्तोऽपि प्रबुद्धः' इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्तिः, एवम् 'गङ्गायां घोषः', 'मञ्चाः क्रोशन्ति', 'कुन्ताः प्रविशन्ति' इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभासप्रसङ्गः । न च दृष्टान्ते विरोधोत्थापकनिवर्तकयोरर्थयोः शक्त्यैवोपस्थितिः, दार्ष्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यमिति वाच्यम् । सत्यपि वैलक्षण्ये वेनेति । तदनिवेशजलाघवादाह-यद्वेति । अत्र कुसुमानीत्यत्र । ननु तर्हि गौरवं तत्प्रयुक्तमस्त्येवात् आह-तत्तदिति । इतोऽपि लाघवादाह-अलंकारेति । श्यामत्वाद्यतिशयेति । शंकरचूडापगेत्यत्रेत्यर्थः । एवेति ध्येयमिति । एवं च 'वि- रोधानुपपत्तिश्चेद्रुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दहतीह माम् ॥'