पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४२९ रितयोरभेदबुद्धेरनुत्पादाहितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम् । विरोधीश्च शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्षः । नव्यास्तु-'अर्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योल्लासकः द्वितीयश्चान्वयबोधविषय इति तत्सत्यम् । परं तु अन्वयबोधविषये द्वितीयार्थै विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसाय इत्युक्तदिशा अभिन्नतया भासते । एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्धमृतः श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति । अत एव चमत्कारीत्युच्यते। नहि निःशेषतया निवृत्तश्चमत्कारं जनयितुमीष्टे । न चान्तरेण चमत्कारजनकतामलंकारो भवति । तस्माद्विरोधधियो नातीव शिथिलमूलत्वम्, नापि चात्यन्तिकी निवृत्तिः' इत्याहुः । ननु अपिशब्दादीनां' प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम् । निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत्, न । निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात् । अथ जात्योर्द्रव्ययोश्च विरोधालंकारो न भवितुमीष्टे 'कुसुमानि शराश्चन्द्रो वाडवो दुःखिते हृदि' इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात् । यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव । न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम् । 'कुसुमानि शराः', 'मृणालवलया - हरिद्भिर्दिग्भिः । न च नहि । निवृत्तिरित्याहुरिति । वयं तु ब्रूमः-सुप्तोऽपि प्रद्ध इत्यादौ समानाधिकरणविभक्त्यर्थयोरभेदः । अपिशब्देन च समभिव्याहृतैकपदार्थतावच्छेदकविरुद्ध त्वमपरपदार्थतावच्छेदके द्योत्यते । तत्र गमकद्वयसत्त्वात्प्रकरणादेर्नियामकस्याभावाच्चार्थद्वयमपि युगपदवभासते । तत्राभेदस्य मुख्यवाक्यार्थत्वात्तद्योग्यार्थस्य विरुद्धार्थश्लेषभित्तिकाभेदाध्यवसायेन विशेषणत्वं विरुद्धार्थस्य तत्रेति युक्तम् । एवं च स्वापविरुद्धजागरणाभिन्नविशिष्टज्ञानाश्रय इति बोधः । यत्र त्वपिशब्दाभावस्तत्र प्रथमतः शाब्दान्वयबोधे जाते सहृदयतावशाद्वितीयार्थोपस्थितौ विरहाद्युद्बोधकसहकृतैकसंबन्धिज्ञानविधया विरोधोपस्थितौ व्यञ्जनयैव तादृशबोधः । अतएवापिशब्दाभावे विरोधो व्यङ्गय इत्याहुः । विरोधस्याभासत्त्वं चाहार्यबोधविषयत्वात्कार्यनिष्पादकत्वाभा-